पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
काव्यमाला ।

सा कृत्वा यत्पथविरचिता तापसीनांविदग्धा
तैस्तैः श्लेषप्रणयवचनस्त्यक्तकोपा विधाय ।
राज्ञश्चक्रे स्वयमविलसत्प्रेमकण्ठावलम्बी
लक्ष्मीमिन्दोरिव जलधरच्छेदलब्धप्रसादाम् ॥ १७३ ।।
देवी ततः स्मितविभक्तकपोलकान्ति-
र्मुक्त्वा वसन्तकमवाप्य रुषं चकार ।
राजा ननन्द च तदाननपद्मभृङ्गः
कोपप्रसादसुभजो रतये हि कामः ॥ २७३ ।।
इति क्षेमेन्द्रविरचित बृहत्कथासारे कथामुखनामा द्वितीयो लम्बकः समाप्तः ।
लावानकनामा तृतीयो लम्बकः ।
प्रथमो गुच्छः ।
सानन्दनन्दिहतपुष्करनिर्भराणि
हेरम्बकण्ठहसितानि चिरं जयन्ति ।
कुर्वन्ति यानि धनशक्तिकुमारबर्हि -
नृत्यैर्विचित्ररुचिभाञ्जि दिगन्तराणि ॥ १ ॥
ततः प्रियतमाकेलिविलासरसतत्परः ।
शनैर्वभूव वत्सेशः प्रजाकार्ये पराङ्मुखः ॥ २ ॥
रुमण्व्नमथाहूय निशि यौगन्धरायणः ।
अचिन्तयत्प्रभुहितंं मन्त्रिमूला हि संपदः ।। ३ ।।
सोऽनवर्वादेष नृपतिर्हतो मकरकेतुना ।
न पश्यति निजा लक्ष्मी निपातमयदुःखिताम् ॥ ४ ॥
मन्दमन्धरसंचारा विलासालसदर्शिनः ।
सत्यं स्मरेण बध्यन्ते राजानः कुञ्जरा इव ।।६।।
नीतयः कुकृतेनैव व्यसनेनेव बुद्धयः ।
सहसैव विनश्यन्ति दुर्नयेन नृपश्रियः ॥ ६ ॥


ख... 'जय खड, ईष्टो' ज.