पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे-विनुष्टंख्यायिका ।।
६७
वृहत्कथामञ्जरी

अपरा तस्य जननी तिरादरधिया सदा
तस्य शीर्णरसं चक्रे स्नेहाच्छादनभोजनम् ॥ २६१ ॥
खपुत्रपोषणरतां कुद्धां तां वीक्ष्य बालकः ।
कदाचित्प्राह पितरं द्वितीयोऽस्ति पिता मम ।। २६२ ॥
इत्यव्यक्ताक्षरां वाचं श्रुत्वा तस्याभवद्विजः ।
शङ्कितो निजदारेषु सहसा भृकुटीमुखः ॥ २६३ ॥
तदेवं सततं बाले ब्रुवाणे परिभत्सिता ।
भर्त्रा तं दारकं प्राह रहः सा भृशदुःखिताः ॥ २६४ ॥
खसुताभ्यधिकस्त्वं में किं त्वया कोपितः पिता।
इति श्रुत्वाब्रवीद्धालः क्रुद्धोऽस्म्यल्पाशनार्दितः ॥ २६५ ॥
प्रसावितोऽथ प्रणयात्तया पितरमागतम् ।
निर्दिश्य दर्पण प्राह द्वितीयोऽयं पिता मम ।। २६६ ।।
श्रुत्वेति प्रत्ययं प्राप्य रुद्रशर्मा धृति ययौ ।
इत्यसमानितः कोपं याति बालोऽपि भोजने ॥ २६७ ॥
इति विनष्टाख्यायिका ॥ ३ ॥
इत्युक्त्वा भूमिपालानां नानादेशनिवासिनाम् ।
पौराणां च व्यधात्पूजां विवाहोत्सवसङ्गिनाम् ।। २६८ ।।
बत्सेश्वरं समाम्न्त्र्य गोपाले शासनात्पितुः ।
प्रयाते स्वपुरीं राजा विजहार प्रियासखः ॥ २९९ ॥
ततो रामाकुलोदारकटाक्षनवपल्लवः ।
विलासहासकुसुमो देव्याः स्मरतरुर्बभौ ।। २७० ॥
गूढ रजनिकाकामी राजा तां च विकातरः ।
इति गोत्रापराधेषु सा ब्रुवाणा रुषं ययौ ॥ २७१ ।।
अयं नरेन्द्रस्य शरीरतुल्यः स्त्रीचक्रिकाबरचक्रवर्ती ।
उक्त्वेति दासीमभिरनङ्गदूतं वसन्तकं भूमिपतेर्बबन्ध ।। २७२ ॥


खल्प ख. २. 'राख, ३. वर्जि' ख...४.ख. ५. 'खल्पाशना

दिति ख.६.णे ख. 'सगाकुरो' स्व.८. रमति कि ख.