पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
काव्यमाला ।

तो प्राप्य राजतनयो श्रीमान्सततकोपनम् ।
मजूने बानरं धृत्वा वयो वेश्म तया सह ॥ ४३ ॥
अत्रान्तरे निजान्शिष्यान्परिव्राडाब्रवील्लघुः ।
गङ्गामन्विष्य मञ्जूषा तूर्णमानीयतामिति ॥ १४ ॥
तैराहृतां समादाय स कन्यारतिलम्पटः ।
तान्याहोत्कण्ठतो वाञ्छन्पातुं निर्मक्षिकं मधु ॥ ४५ ॥
युष्मामिर्न प्रवेष्टव्यं श्रुत्वापि वचनानि मे ।
इत्युक्त्वार्गलितद्धारां विवेशैको निजां कुटीम् ॥ १६ ॥
उद्घाटितेऽथ मञ्जूषे क्रुद्धो निर्गतवानरः ।
कर्णनासाविरहितं तं चकार स्मरातुरम् ॥ ४७ ॥
ऋषिचीत्कारमिश्रेण तस्य हाहारवेण ते ।
नाश्रमं विविशुः शिष्यास्तदाज्ञाभङ्गभीरवः ।.४८ ॥
ततस्तच्चरितं ज्ञात्वा जहास सुचिरं जनः ।
इति दैवगतिश्चित्रा पुरुषस्य न लङ्घ्यते ॥ ४९ ॥
इति परित्राजा(डा) ख्यायिका ॥ १ ॥
सेनापतेरिति श्रुत्वा प्राह यौगन्धरायणः ।
किमतच्छङ्कसे मिथ्या वत्सेशः श्रियमेष्यति ॥ ५० ॥
च हि दाशरथी रामो जानकी विरहातुरः ।।
सत्याता पञ्चता जोरो दशकण्ठकुलान्तकः ।। ३ ।।।
अमात्युक्तिभिर्भूपाः प्रामुवन्त्येव संपदः ।
सन्मन्त्रिणो हि भूपानां श्रीरक्षापरिखाचलाः ॥ १२ ॥
सहवागनीशियी राजा निरुद्धो विषये पुरा ।
शत्रुभिमन्त्रिणम् बुद्द्या गुढमिथ्यामृतः कृतः ॥ १३ ॥


शिव कुमाख वण . . विरहापुरा स.