पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लाचालक सुन्दा सुन्दाख्यायिका ।।
७३
वृहत्कथामञ्जरी

तं विज्ञाय यशःशेष दृष्टास्तस्य ततोऽरयः ।
विसृष्टसेना निःशङ्कास्तदामात्यैर्धिया हताः ॥ १४ ॥
इति पुण्यसेनाख्यायिका ॥ ६॥
मन्त्रयित्वेति विश्रब्ध बहु यौगन्धरायणः ।
गोपालमनिनायाशु स्वपुरीं नृपसेवने ॥ १९ ॥
कृत्वा विदितवृत्तान्तं तं नरेन्द्रहिते रतम् ।
क्व बासवदत्ताया दाहें निश्चयमाप्तवान् ॥ १६ ॥
स लावानकयात्रायां चक्रे भूपतिमुत्सुकम् ।
देवी च को हि जानीते चरितं प्रौढमन्त्रिणाम् ।। ६७ ।।
अत्रान्तरे नरपतौ सर्वास्थानसभाश्रिते।
विवेश नारदः श्रीमान्दीनो पिञ्जरिताम्बरः ॥ १८॥
प्रणम्य पूजितो राज्ञा सह वासवदत्तया ।
देवर्षिरभ्यधाद्दिक्षु किरन्दशनचन्द्रिकाम् ॥ १९ ॥
त्वां च वासवदत्तां च दृष्ट्वा राजीवलोचनाम् ।
स्मरामि पाण्डुपुत्रस्य कृष्णायाश्च मृगीदृशः ॥ १० ॥
वृत्तान्तं कथितं तस्य मया सुन्दोपसुन्दयोः
रक्षता भ्रातृजं भेदं द्रौपदीवरणे पुरा ॥ ६१ ॥
सुन्दोपसुन्दावन भूता बलिनौ पुरा ।
निदाघीकृतहेमन्तौ दिवापि कृतचन्द्रिकौ ॥ १२ ॥
तत्पराक्रमवित्रस्तवैरभ्यर्थितस्ततः ।
वेधा विनिमये कान्तां सुरनारीतिलोत्तमाम् ॥ ६३ ॥
सा विलासरसावासहासविभ्रमशालिनी ।
मत्तालिकोकिले काले विजहार तयोः पुरः ॥ १४ ॥
तां दृष्ट्वा पृथुलश्रोणीं वायुनोच्चालितांशुकाम
ममैवेयं ममैवेयमिति तौ भेदमापतुः ।। ६५ ।।


२. तिलशो निसिता लेंन सा च विभ्रमंशालिनी ख.