पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
काव्यमाला ।

ततस्तो समरोवत्तलौ करालभुजशालिनौ ।
कृतान्तातिथितां यातान्निति भेदोपपत्तये ॥ १६ ॥
इति सुन्दोपसुन्दाख्यायिका ॥ ६ ॥
इत्युक्त्वा नारदो देवीं विलोक्य प्रणतां पुरः
विद्याधरेन्द्रजननी भाविनीत्याह दिव्यधीः ॥ ६.७॥
तिरोहिते ततस्तस्मिन्राजा लावानकं ययौ ।
सेनापिहितदिक्चक्रः सह वासवदत्तया ।। ६८ ॥
आगतं वत्सनृपतिं ज्ञात्वा दूतेन मामधः
शङ्कया संभूतस्तस्थौ मन्त्रिवर्गबलोद्यमैः ॥ १९ ॥
बत्सराजोऽपि दयितासंभोगामृतनिर्भरः ।
लावानकपुरोद्याने विजहार स्मरोपमः ।। ७०
अथ तस्मिन्मृगव्यायां क्रीडायै विपिनं गते ।
यौगन्धरायणॊभ्येत्य सार्थं गोपालकादिभिः ॥ ७१ ।।
कृत्वा ज्ञातकथां देवीं प्राणैः पत्युर्हितैषिणीम् ।
गूढं वसन्तकोपेता निनाय मगधां क्षणात् ॥ ७१ ॥
तस्य योगेन तरुणी साभवद्ब्रह्मणी तदा ।
वसन्तकः कामबटुः स्वयं वृद्धद्विजश्च सः ।। ७३ ॥
तेषु यातेषु मंगा गोपालोऽपि रुमण्वता ।
सह लावणकं दग्ध्वा गूढमन्नवसेभवत् ।। ७१ ॥
मन्त्री वृद्धद्विजाकारः प्रविश्य मार्गमापतेः ।।
कन्यकान्तःपुरे प्राह प्रौढः पद्मावतीं शनैः ।। ७१।
राजपुत्री सुतेयं मे रूपिणीतनयोऽप्ययम् ।
अन्वेष्टमस्या गच्छामि निविप्नोषितं पतिम् ॥ ७६ ॥
निक्षिप्तेयं त्वयि मया सुतश्चयां प्रियंवदः ।
इत्युक्त्वा प्रययौ मन्त्री तथेत्यभिहितस्तया ॥ ७ ॥


व साम रख