पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लावानके पद्मावती विवाह ।।
७५
वृहत्कथामञ्जरी

सा च पद्मावती देव तां प्द्मावतीं मुहुः ।
परस्परमहो रूपमित्यासक्तमवोचताम् ॥ ७ ॥
अवन्तिकामभिधानां तां छत्रां वीक्ष्य द्विजन्मजाम्
मागधी देवतां मेने रूपलावण्यरशिभिः ॥ ७९ ॥
उवाच छत्रयोगेन दमयन्ती चलप्रिया ।
कृष्णा च पाण्डवनस्तादिधेयं भविष्यति ॥ १० ॥
ध्यात्वेत्युपेचचारैता श्रेणता देवतामिव ।
ततः पद्मावतीमाता तां दृष्ट्वा विस्मिताबदत् ।। ८१॥
कुन्ती भोजस्य तनया पुरा दुर्वाससं मुनिम् ।
आराध्य पितुरादेशादवाप प्रवरं वरम् ॥ ८२ ।।
तस्मादयन्तिकापुत्री दिव्योचितमैनः सती ।
यत्नादाराधनीयेयं सत्सेवा हि महाफला ।। ८३ ॥
इति मातुर्नियोगेन तां सिषेवे नृपात्मजा ।
मन्दीकृत्य शुचं किंचित्सहायमिव चेष्टितैः ।। ८४ ॥
विरहानलसतीषमूर्छितापि मुहुर्मुहुः ।
संकल्पोल्लिखितप्रेयो दर्शनेन धृति ययौ ।। ८५ ॥
अत्रान्तरे मृगक्रीडानिवृत्तो वत्सभूपतिः ।
देवी लाबानके दग्धामज्ञासीत्सवसन्तकाम् ॥ ८६ ॥
श्रुत्वैव स पपाताशु विस्फुरत्कटको भुवि ।
हारांशुनिर्भरस्मेरो बज्जलून इवाचलः ॥ ८७ ॥
तुषारचन्दनजलैविबुद्धो विलपन्प्रियाम् ।
तत्सपत्नीति भीत्येव नुमोचालिङ्गितां महीम् ॥८॥
स समाश्वास्यमानोऽपि यताद्गोपालकादिभिः ।
आससाद धृतिं राजा नयहीन इव श्रियम् ।। ८९ ॥


१. सौरभैः ख..२. 'तनु ख.३.

६.भयां खः ७. 'नासख. ४. तप्ता ९.५ 'प्रायाई ख.