पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/61

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे--देवस्मिताख्यायिका ।।
६१
वृहत्कथामञ्जरी

देवस्मितार्थिनां तेषां साहाय्ये प्रतिपन्नधीः ।
मन्त्रप्रयोगकुशला तानुवाच तापसी ॥ १८८ ॥
गुहसेनस्य दयितां तामहं भवतां वशे ।
करिष्याम्यस्ति में शिष्या सर्वविज्ञानशालिनी ॥ १८९ ॥
सा हि सिद्धिकरी नाम पुरा देशान्तरागतम् ।
मन्त्रज्ञा वशगं चक्रे वणिजं पालिताभिधम् ॥ १९० ॥
तस्य भूरिधनं हृत्वा मणिकाञ्चनमौक्तिकम् ।
प्रययौ छन्नयोगेन सर्वसर्वस्वहारिणी ॥ १९१ ॥
धनभारानतां मार्गे हुन्तुकामोऽथ भीषणः ।
दस्युः श्वपाको विजने शनैरनुससार ताम् ॥ १९२ ॥
क्रूर यमागतं दृष्ट्वा सा प्रोवाच धनार्थिनम् ।
भर्त्रा निरस्ता कुद्धेन प्राप्ताहं शरणार्थिनी ॥ १९३ ॥
अस्मिन्यग्रोधविटपे सज्जीकुरु कृपानिधे ।
पाशनिःशेषशोकाभिशान्तये प्रणयादिति ॥ १९ ॥
अयत्नोपनतं दृष्ट्वा वराकस्तद्धनं बहु ।
तूर्ण विधाय वृक्षाने पाशं तामभ्यभाषत ।। १९५ ॥
सज्जीकृतं मया मातः क्षिप्रमारुह्यतामिति ।
साब्रावीन्मम शिष्याय दर्शयैतद्वनै सखे ॥ १९६ ।।
इति तद्वचसा मूढो ललम्वे द्रविणाशया।
कण्ठे तदुपदेशाय पाशं कृत्वा सुवेष्टितम् ।। १९७ ।।
इत्थं विधीयतां कण्ठे तूर्णं तमिति वञ्चितम् ।
पादेन सा चकर्षाशु स च कृष्टोऽभवन्धसुः ।। १९८ ॥
श्वपाकमिति हत्वा सा प्रस्थितकाकिनी पथि ।
पालितानुचरैर्दृष्टा क्रुद्धैर्द्रविणहारिणी ॥ १९९ ॥
सा तान्दृष्ट्वा समारुह्य वृक्षं तस्थौ लतान्तरे ।
तन्मध्यादधिरुह्यैकः शनकैराससाद ताम् ॥ २०० ॥


"बुद्धि ख. २. पारोह ख. ३. वादिनमूख