पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
काव्यमाला ।

साब्रवीत्साभिलाषाहं त्वय्येव सततं विभो ।
धनं त्वदर्थमेवेदं शपथं कुरु चुम्ब माम् ॥ २०१॥
इत्युक्त्या वञ्चनं चक्रे निवेश्य दशनैस्ततः ।
जिह्वां चिच्छेद सा तस्य लल्ललल्लेति भाषिणः ॥ २०२ ॥
ततो निपतिते तस्मिन्रक्तष्ठीविनि भूतले ।
भूतग्रस्तोऽयमित्युक्त्वा शेषास्ते दुद्रुवुर्भयात् ॥ २०३ ॥
इति तद्वञ्चनावाप्तं धनं मह्यं न्यवेदयत् ।
सा शिष्या विश्वविश्वासछद्महेतुर्महाशया ॥ २०४ ॥
समागतैव सा मन्ये मम साहाय्यकारिणी ।
देवस्मिता संगमं वो लीलयैव विधास्यति ॥ २० ॥
तस्यामित्युक्तवत्यां सा सहसाभ्याक्यौ कुटीम् ।
शिष्या सिद्धिकरी तां च दृष्ट्या सर्वं ववन्दिरे । २०६ ।।
ततो विदितवृत्तां तां कृत्वा योगकरण्डिका
सिध्या देवत्सितारोह तयैव सहिता ययौ । २०७ ॥
गुहसेनगृहं प्राप्य द्वारपालमुपेत्य सा ।
कण्ठे जग्राह सोत्कण्ठं कृत्वा च पटसंगृहे ॥ २०८ ।।
त्वं मे जन्मान्तरसुहृन्नेत्राभ्यां विनिवेदितः ।
इत्युक्त्वा भोदकांस्तस्मै दत्वा तद्वचसाविशत् ॥ २०९ ॥
गुहसेनजनन्याच पूजिता मध्यमन्दिरम् ।।
प्रविश्य विरहानामा प्राप्य देवस्मितां सतीम् ।। २१० ॥
अदृष्टां भास्करेणापि दृष्ट्वा तां गुप्तमन्दिरे ।।
माता वीक्ष्य चाशीभिरभिनन्द्याश्रमं ययौ ॥ २११ ॥
अन्येद्युर्मासशकलं प्रभूतमरिचं करे ।
कृत्वा सशिष्या प्रययौ पुनर्देवस्मितान्तिकम् ॥ २१२ ॥


विधः ब. २. रर ख. सम ख. ४. कपटसंभ्रम ख.

वं.६. विविधाशी र