पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे-देवसिताख्यायिका ।।
६३
वृहत्कथामञ्जरी

तृप्तां मरिचमांसेन कृत्वा वेश्माग्रगां शुनीम् ।
पूजितासनपुष्पाद्यैः सशिष्या समुपासत ॥ २१३ ॥
अथाश्रुचर्षिणीं दृष्ट्वा शुनी मरिचतापिताम् ।
रुरोद तापसी तां च सा प्रपृच्छ वणिग्वधूः ॥ २१४ ॥
तापसी प्राह पृष्टाथ पुत्री जन्मान्तरे मम
पतिव्रता सपत्नीय बभूवातिप्रिया शुनी ॥ २१५ ॥
अहमेषा च विप्रस्य भार्ये देशान्तरस्थिते ।
लावण्ययौवनोपेते प्राप्ते निर्दिश्यतां पुरा ॥ २१६ ॥
अहं नवनवोदारवल्लभा सुभगाभवम् ।
इयमासीच्च सततं सती नियमदुर्भगा ॥ २१७ ॥
मन्यामहे न हि वयं पापीयांसमतः परम् ।
यः संरुद्धेन्द्रियो मोहात्वतन्त्रं शोषयेन्मनः ॥ २१८ ।।
निरर्गलेन्द्रियसुखा नित्यानन्दोपयोगिनी ।
अहं योगिपदं प्राप्ता सा सर्वजनकामिनी ॥ २१३ ॥
भक्त्या तु मे सपत्नीयं पुत्रि जातिस्मरा शुनी ।
तिर्यम्भावमियं प्राप्ता साध्वी मानसदूषिता ॥ २२० ॥
सैषा चिरेण मां दृष्ट्वा रोदिति स्मृतवल्लभा ।
श्रुत्वैतत्तापसीवास्थं निनिन्द मनसा सती ॥ २२१ ॥
किल्विषं मानसगतं तस्या द्रष्टुं समुद्यता ।
साब्रवीयदि धर्मोऽयं कंचिदानय मे प्रियम् ॥ २२२ ॥
इति देवसितावाक्यं श्रुत्या योगकरण्डिका ।
प्राहाश्रमे मे चत्वारो युवानो वणिजः स्थिताः ॥ २२३ ॥
सह मोदिष्यसे तैस्त्वमित्युक्त्वा तत्कृते ययुः ।
देवस्मिताप्यनुचरी बभाषे कोपकम्पिता ॥ २२४ ।।


१. 'विशद खा.२.६ ख ३. निरगळेन्द्रियग्रामनियनत्योपभोगिनी ख.

'संयमदू न. ५. 'श्रुत्वेति ता ख.