पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
काव्यमाला ।

ध्रुवं देशान्तरस्थेन मद्भर्त्र वणिजां पुरः ।
कथिता मधुत्तेन मत्कथा महाकौतुके ।। २२५ ॥
तथैव नून वणिजस्वस्मिस्तत्र चिरस्थिते
मदर्थमागतास्तेषां करिष्यामि थथोचितम् ।
इत्युक्त्वात्मनिभां कृत्वा दासी निजपदे व्यधात् ।। २२६ ॥
ततो वणिजमानीय तापसी रत्नभूषितम् ।
निशि सिद्धिकरीवेषं ययौ विन्यस्य तद्गृहे ॥ २२७ ॥
स प्रविश्य निजं रूपमासाद्य स्मरमोहितः ।
दासी देवस्मितावेषां ननन्द प्राप्य सुन्दरीम् ॥ २२८ ॥
ततो धत्तूरकोपेतं पीत्वा मधु तदाहृतम् ।
बभूव स्रस्तवसनः कान्तः काष्ठोपमाकृतिः ॥ २२९ ॥
निश्चेष्टं तं ललाटाग्रे गृहीताभरणाम्बरा
अङ्ग्कं कृत्वा स्वापादेन विक्षिपुः कर्दमे स्त्रियः ॥ २३० ॥
प्रभाते प्रतिबुद्धोऽथ पट्टिकाच्छादितालिकाः
गत्वा परानुवाचाहं हतो दस्युगणैरिति ॥ २३१ ॥
इति क्रमेण तेनैव सर्वे ते तत्पदाङ्किताः ।
स्वदेशं प्रययुगूठा निन्दन्तो निजदुष्कृतम् ॥ २३२ ॥
तेनैव मधुना भत्तां कृत्वा योगकरण्डिकाम्
कर्णनामानिरहिता तच्छिाया च वैशिनवधः ॥ १२२.३ ॥
प्रतस्थ वचसा स्वस्था गुहसनाशिता दिशम् ।।
मा कदाचिन्मम पतिं हन्युस्ते लज्जिता इति ॥ २३४ ॥
व्रजन्ती प्राह सा श्वश्रूं गत्वा रक्षाम्यहं प्रियम् ।
शक्तिमत्या यथा पूर्वं परित्राता पतिर्धिया ॥ २३५ ।।
मणिभद्रालउए पूर्वं निरुद्धो दण्डवासिना ।
वणिक् संपारदत्ताख्यो जारः सह परस्त्रिया ॥ २३.६ ॥


'काष्टलोष्ठसमाक्ष-ख. ३. 'अङ्कयित्वा' ख.