पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे विनष्टाख्यायिका ।।
६५
वृहत्कथामञ्जरी

बद्धं विज्ञाय न जाया तस्य शक्तिमती सती।
प्रविश्य पूजाव्याजेन निशि तस्थौ सुरालये ॥ २३७ ॥
तामसाध्वीं प्रियां भर्तुर्र्निजाभरणवाससा ।
आत्मतुल्या विधायाशु विससर्ज भिया न ताम् ॥ २३८ ॥
ततः प्रभाते भूपालसभां नीत्वा वणिग्जनः ।
दृष्टः स्वभावासाहितस्ततो राजा विचारधीः॥ २३९ ॥
मिथ्या बद्धोऽयमित्युक्त्वा कुषितो दण्डवासिकम् ।
बबन्धेति पुरा तस्या रक्षितः साहसात्पतिः ।। २४० ।।
गवाहमपि भतारं रक्ष्यामीत्यभिधाय सा ।
वणिवेषाभिमुार्य ददर्श निजवल्लभम् ॥ १४१ ॥
विधाय पौरूष धेष तत्र राजानमेस्य च ।
व्यजिज्ञपत्तंभो पत्युर्दासा में हरिता इति ।। २४२ ।।
गृहाणैतान्समामध्ये विचिन्त्य सकलं जनम् ।
इति राज्ञा समादिष्टास्ताञ्जग्राह वेणिग्वरान् ॥ २४३ ॥
मयाङ्किताः खपादेन प्रतिज्ञायेति संसदिः ।
ताशिर पदमुद्धाट्य सा प्रत्यक्षमदर्शयत् ।। २४४ ॥
ततो विदितवृत्तेन तस्यै दत्ता महीभुजा ।
वणिजो मोक्षिता दास्याद्धनेन निबन्धुभिः ॥ २४५ ॥
इति भूरि धनं लब्ध्वा गुहसेनमवाप्य च ।
ताम्रलिप्ता समभ्येत्य सा ननन्द चिरं सती ।। २४६ ॥
इति देवस्मिताख्यायिका ॥ २ ॥
वसन्तकेन कथितं निशम्येति नृपात्मजाः
ननन्द साध्वी चरितैः सुष्यते च सतीमनः ॥ ३४७ ॥
अत्रान्तरे प्रतीहारे महासेनमहीपतेः ।
वत्सेश्वरं समभ्येत्य समासीनं व्यजिज्ञपत् ।। २४८॥


हिया ख.२. साख, ३. 'पुर: स्व. ४. राजा' ख. ५. धृताम्ब-

रान खः तच्छिरःख...चि..येव' ख..