पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
काव्यमाला ।

उद्यतः स ततो गन्तुं समुद्रं धनवृद्धये ।
विवेश वल्लभा द्रष्टुं वियोगभयकातराम् ॥ १७६ ॥
दोलाविलोलहृदयस्ता पपौ सुचिरं दृशा।
रागो निर्भस्तामेति विरहो हि भविष्यति ।। १७७ ।।
प्रियं सुदयितं ज्ञात्वा सावदत्साञ्जनाश्रुभिः ।
प्रौढा प्रावृडिव श्यामा श्यामीकृतपयोधरा ।। १७८ ॥
ध्रुवं सौभाग्यनिधयस्त्वां यौवनसुरद्रुमम् ।
दृढबन्धं करिष्यन्ति दिगन्तेषु मृगीदृशः ॥ १७ ॥
इति प्रणयिनीवाक्यं स निशम्य स्मराकुलः ।
स्वप्ने ददर्श वरदं सभार्यं पार्वतीपतिम् ॥ १८० ॥
वियोगे रतिमन्यन्त्र युव्ययोर्यः प्रयास्यति ।
ग्लानिमेष्यति मुहूर्तं हस्ते तस्येदमब्रुवम् ॥ १८१ ॥
इति रक्ताम्बुजयुगं स्वप्ने ताभ्यां ददौ शिवः ।
तमादाय प्रबुद्द्ध्यैव दम्पती तौ ननन्दतुः ॥ १८२॥
ततो प्रातः प्रशस्तेऽह्नि दिगन्त सचिवः सह ।।।।
कटाक्षद्वीपमासाद्य तस्थौ बहुलविक्रयः ॥ १८३ ॥ ।
वणिग्भिः संगतस्तत्र तत्रत्यैर्मदमोहितः ।
पृष्टो रक्ताम्बुजं दृष्ट्वा तत्कथामब्रवीच्च सः ॥ १८४ ॥
युवानस्तत्र तां ज्ञात्वा प्रियां देवस्मिताभिधम् ।।
गूढास्ते ताम्रालिप्त्यायां ययुस्ते, संगमाशया ॥ १८६ ॥
तद्गृहान्वेषणपरास्ते तु भ्रान्त्वाखिलां पुरीम् ।
तापसी विजनेप्रापुर्वृद्धां योगकरण्डिकाम् ॥ १८६ ॥
तया संजातविश्वासा निजागमनकारणम् ।
निवेद्य तस्मै कामार्ताश्चिरं तस्थुस्तदाश्रमे ॥ १८७ ॥


विवाद दचित व. २ मजयरवा सौन्दर्यसु' सर

४, शोष