पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे-देवसिताख्यायिका ।।
५९
वृहत्कथामञ्जरी

अत्राभ्येति समादाय रवाश्चवरकुञ्जरान् ।
गोपालकस्त्वद्विवाहे विसृष्टोऽवन्तिभूभुजा ॥ १६४ ॥
इति पान्थवणिग्वाक्यं ज्ञात्वा राजा प्रियासखः ।
विसृज्य दूतान्स्वपुरीं स्वसैन्याय व्यलम्बत ॥ १६५ ॥
मनोविनोदनं किंचित्कथयेत्यथ सादरम् ।
विवाहोत्सुकया देव्या पृष्टः प्राह वसन्तकः ॥ १६६ ॥
अभवत्ताम्रलिप्तायां धनगुप्ताभिधो वणिक्
ब्राह्मणान्पुत्रकामोऽसावपृच्छत्तेऽप्यथोचिरे ॥ १६७ ॥
एकपुत्रः पुरा राजा सोमको यागपावके ।
जन्तूनामयुतं हुत्वा पुत्राणां शतमासवान् ॥ १६८ ॥
एवं श्रुत्वा स पुत्रेष्ट्या पुत्रं प्राप कुलोचितम् ।
गुहसेनाभिधं यस्य कन्दो लज्जते पुरः ॥ १६९ ॥
धनगुप्तोऽथ कालेन संसुतो रत्नविक्रयी ।
समुद्रं यानपात्रेण प्रययौ धनदोपमः ॥ १७० ॥
धनिनो धर्मगुप्तस्य तत्र वर्वरवासिनः ।
सोऽयाचत स्वपुत्राय कन्या लावण्यशालिनीम् ॥ १७१ ॥
दूरे देशे प्रियापत्यः पिता तां न ददौ भिया ।
वणिक्पुत्रं समालोक्य सा त्वभूदभिलाषिणी ।
सख्यावेदितवृत्तान्ताः तद्नेहमगमत्स्त्रयम् ॥ १७२ ॥
देवस्मिताभिधानां तामादाय स्वयमागताम् ।
ताम्रलिप्ता समभ्येत्य पुत्रस्योद्वाहमादधे ॥ १७३ ॥
गुहसेनस्तया तत्र बालसारङ्गनेत्रया ।
संगतोऽनङ्गभगः सुधासिक्त इवाभवत् ॥ १७४ ॥
कालेन त्रिदिवं याते धनगुप्ते स तत्पदे ।
प्रतिष्ठा प्राप्य यात्रायां चक्रे बन्धुगिरा धियम् ॥ १७५ ॥


'अभ्येश्यति ख.२. नि. ख. विणिजो धर्मपुत्र ख, ४. तद्रूषा-

मि ख. ५, 'भन गुप्तसुतस्तन्व्या लोलसाख,