पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
काव्यमाला ।

स पालकेन कृतिना युद्धसज्जेन कुञ्जरः ।
प्रेरितोऽपि विकोपोऽभूद्दृष्ट्वा च भगिनीं परः ॥ ११२ ॥
आकर्णचितकोदण्डमण्डलोचण्डसायकः ।
आलोक्य भगिनीमग्रे विरराम च पालकः ॥ १५३ ॥
राजापि निर्दयोद्भूतधन्वा धैर्यनिधिर्युधि ।
चिच्छेद पालकस्यापि चक्रतोमरकार्मुकम् ॥ १५४ ॥
खड्गखण्डैनिपतितस्तस्य संग्रामभूरभूत ।
जयश्रीरतिशय्येव कीर्णकर्णोत्पलच्छदैः ॥ १५९ ॥
अत्रान्तरे समभ्येत्य गोपालो जवनैहयैः ।
निनाय स्वपुरीमेव पालक पितुराज्ञया ।। १५६ ॥
निवृत्ते राजपुत्रेऽथ नलागिरिबलोत्कटे ।
द्रुतं याति च वत्सेशे प्रययौ यामिनीशनैः ।। १५७ !!
अन्येद्युरथ मध्याह्ने प्रचण्डकिरणे वौ
तृष्णार्ता करणीत्याह नृपमाषाढको वने ॥ १५८ ॥
ततस्तडागमासाद्य पीत्वा भद्रवतीजलम् ।
विषदूषितमाकण्ठेमवत्तीय तृषापतत् ॥ १५९ ॥
अहं मायावती नाम विद्याधरवधूर्तृप ।
वत्सेवया मुचनामा भविष्याम्पकारिणी ॥ १.६० ॥
भाविजस्तव पुत्रस्य सर्वविद्याचरणमा
इति पञ्चत्वमापन्ना प्राह भद्रवती दिकः ॥ १११ ॥
ततो वसन्तकेनाशु समाहूरा पुलिन्दकम् ।
तत्प्रपुरीं प्रययौ राजा हत्वा दस्युगणं पथि ॥ १६२ ॥
यौगन्धरामनाथ निजनेशवता नृपः ।
जनन्द संगतस्तस्य समं वासवदत्तया ।। १६३ ।।


खा ख. ३. तत्र ख.