पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुख देवस्मिताख्यायिका ।।
५७
वृहत्कथामञ्जरी

कोपनः पालकः शूरो मान्यो वरसेश्वरश्च नः ।
गच्छ गोपाल संयुद्धं निवारय जवादिति ॥ १४० ।।
पितुर्नियोगादारुह्य सुग्रीवाख्यं तुरङ्गमम्
गोपालः प्रथयौ तूर्णं ततो भ्रातृनिवर्तने ॥ १४१ ॥
वत्सेश्वरोऽपि निबिडध्वान्तलीने निशामुखे ।
व्रजव्राराज प्राजिष्णुतारहारांशुसूचितः ।। १४१
अथोज्जगाम ललनाकपोलललितद्युतिः ।
रजनीराजतनयाकर्पूरतिलकः शशी ॥ १४३ ॥
मुष्टिग्राह्ये निशाकान्तकान्तिपूरे प्रसर्पति ।
अकस्माद्दाननिर्घोषभज्यमानेव भूरभूत् ॥ १४४ ॥
कल्पान्तोद्भ्रान्तचण्डीशलडडुमरुकोद्भवम् ।
आषाढका समाकर्ण्य शब्दं राजानमभ्यधात् ॥ १४५ ॥
एष देव महामेघघोरघोषो नडागिरेः।
शब्दो रुणद्धि विध्व ……….……….॥१४६॥
उक्त्वेति विरते तस्मिन्नदृश्यत्त नलागिरिः ।
मेवं संसामलिनः सुरद्विप इवापरः ॥ १४७ ॥
तदाज्ञया विना नैव मम सा स्वपदस्थितिः ।
इति वामस्त्वमन्वष्टुमायातो विन्ध्यभूधरः ॥ १४८ ॥
सिन्दूरपूरारुणितं घण्टाभ्यां तद्वपुर्बभौ ।
उदयास्तस्थित्ताकेंन्दुलिम्ध सांध्यमिवाम्बरम् ।। १४९ ॥
करेशुदन्तमुशलच्छायसूत्रेण शोभितः ।
सेवाकृते विशेषेण मा पीडय महीमिति ॥ १५० ॥
मा कदाचिद्धि साकारकरं तारापति हरेत् ।
इति नक्षत्रमालाभिः सेव्यमान इवाभितः ॥ १५१ ।।


१. ममास्य च ख. २. 'सदृश ख. ३. 'जनि' ख. ४. 'रिः'

'याशुने ख. 'जुषेण शे' खसख.