पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/51

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे-लोहजङ्घाख्यायिका ।।
५१
वृहत्कथामञ्जरी

कपालशकलाकारी चटत्कारचिताललम् ।
वेतालोत्तालककालकेशिकोलाहलाकुलम् ।। ६५ ।।
तत्र योगेश्वराख्येन मित्रतां ब्रह्मरक्षसा ।
प्राप्य रूपपरावृत्तिं योगं लेभे महामतिः ॥ १६ ॥
क्षणाद्वभूव खल्वाटः पञ्चचूडो महाहनुः ।
लम्बोदरस्तनुग्रीवः ककुदी जरसार्दितः ॥ १७ ॥
वसन्तः सोऽपि तेनैव नीतः क्षिप्रं विरूपताम्
बभूव विकटाकारो हस्त्यायतनमात्मनः ॥ ६८ ।।
यौगन्धरायणः प्राप्य राजमार्गं स्खलङ्गतिः ।
गायन्हसन्पठन्धावन्मृत्युञ्जनमहाशयन् ॥ ६९।।
सवालकरतालाङ्ककेलीकलकलाकुलः ।
कन्यकान्तःपुरोपान्ते नितान्तोन्मत्तकोऽभवत् ॥ ७० ॥
कौतुकात्तत्र नारीभिर्नीतो गान्धर्वशालिकाम् ।
कन्यागुरुं ददर्शाथ नृपं पुनरिवार्जुनम् ॥ ७१ ।।
सुसंयतं समालोक्य रुरोद विगतज्वरम् ।
रहो युक्तं समाभाष्य योगेनान्तहितोऽभवत् ॥ ७२ ॥
वत्सेश्वरोऽपि संप्राप्य योगं यौगन्धरायणात्
ददर्श मन्त्रसंकेतविपरीतं वसन्तकम् ॥ ७३ ।।
तेन मन्त्रिविदग्धेन रञ्जिता राजकन्यका ।
जहर्ष श्रीयुत्ताः सत्यं विपरीतेषु सादराः ॥ ७४ ॥
धुर्यः कथाविदामस्मि ब्रुवागमिति तां कथाम् ।
पपृच्छ राजतनयाष्टोऽथाह वसन्तकः ।। ७६ ॥
मथुरेत्यस्ति नगरी यदग्रे न गरीयसी।
सापि शक्रपुरी रम्या रुक्मिणीव हरिप्रिया ॥ ७६ ॥
गौ रकीर्तिसुधाधौतरत्नभ्राजिष्णुमन्दिरे ।
श्वेतद्वीपधिया यत्र साक्षात्संनिहितो हरिः ॥ ७७ ॥