पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
काव्यमाला ।

बभूव रूपिणी नाम सत्र वारविलासिनी ।
वशीकरणचूर्णेन निर्मितेन मनोभुवा ॥ ७e
सुरालयमतापश्यत्सा कदाचिन्मनोरमम् ।
द्विजं साङ्गमिवानङ्गं साकारमिव यौवनम् ॥ ७९ ॥
दृष्टकामुकलोकापि ते विलोक्य जहर्ष सा ।।
करोति के न वषगं साभिलाषं जनः ॥ ८० ।।
ततस्तं लोहजहजङ्गाख्यं भूत्वा प्रसभमर्थिनम् ।
निजं निनाय सा गेहं रत्नांशुकपिशोदरम् ।। ८१ ॥
तेन बालकुरङ्गाक्षी रममाणा घनस्तनी
ललामरुचिरं तत्र निषिद्धाशेषकामुका ॥ ८२॥
ततो मकरदंष्ट्राख्या जननी हरिणीदृशः
अमेककामुकच्छिन्ननासा श्रवणभीषणा ॥ ८ ॥
सदा कलहनिर्लून निःशेषकचसंचया।
अतीतकामुकव्रातकेशाघातव्रणान्तिका ॥ ८ ॥
भयदा कालरात्रीव वज्रधारेव कुट्टिनी ।
घोराचिताग्निमालोक्य कङ्कालीव नराशिनी ॥ ८९ ॥
विलोक्य निर्धनं पुत्र्या वल्लभं शुशिरस्मितम् ।
कपालमांसरसिका राक्षसीं साब्रवीत्सुताम् ॥ ४॥
अहो विभूतिरहितं पुत्रि गेहं न राजते।
शुष्कलीथीव वेश्या हि पूर्यन्ते लोकयात्रया ॥ ७ ॥
पत्युर्दारिद्र्यसाहाय्यं सतीनामेव शोभते ।
अस्माकं तु धनवातैः सदा नवनवोत्सवः ॥८॥
अस्यासरहिता विद्या निरुद्योगीं नृपश्रियः ।
वेषवोपञ्च रागिण्यो हास्यायतनमङ्गने ॥ ८९ ॥
 


यो सत्य साहिशये वपुःख,

मक्तो छ