पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/41

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे श्रीदत्तात्यायिक ।। हत्कथामञ्जरी । ।।
४१
वृहत्कथामञ्जरी

समृद्धिमिदं सर्वस्य शृंगारस्येव देवताम् ।
निर्णयन्सा तां कान्तां रागाम्मूढ इवाभवत् ।। ९१ ।।
स्फूर्जद्विशालविषवाहिकराललंष्ट्रा-
नाशीविमान्यशमुपेत्य नयन्ति धीराः ।
सिंहांश्च केबरमाविकटाहासा-
न्कर्दपदर्पदलने न तु कश्चिदीशः ॥ ९२ ॥
सा मृगाङ्कवती दृष्ट्वा भूपतिबिम्बकः सुताम् ।
श्रीदत्तं मन्मश्रोदारं ययौ पञ्चेषुलक्षताम् ।। ९३ ॥
मनोभवनवारम्भविश्रमव्यग्रमानसाम्
भुजङ्गः कदलीकेलिलोला तामदशल्करे ॥ १४ ॥
जातः स्मरविकारेण सुहृदा प्रेरितस्ततः ।
निजाङ्गुलीयं दत्त्वैव श्रीदत्तस्तामजीवयत् ।। ९५ ॥
आशीविषरिषोन्मुक्ता ततः सा लब्धजीविता ।
मनोभवभुजङ्गेन मुमोह मुहुरदिता ॥ ९६ ॥
ततो विदितवृत्तान्ता सखी भावनिकाभिधा
स्मरातयेन श्रीदत्तं तस्याः संतापमभ्यधात् ।। ९७.
सुहृद्भिरममामच्या विरहामविग्रहः ।।
वहिदाहापदेशेन स जहार नृपात्मजाम् ॥ ९८ ॥
वयस्यैस्तां पुरो नीत्वा स्वयं गत्वान्यवासरे ।
ददर्श शरनिर्भिन्नां दीनां भावनिका पथि ॥ ९९ ।।
किमेतदितिं पृष्टाथ निखिलान्सचिवास्तव ।
शरैर्विदार्याभिमुखान्क्षत्रिर्मे हृता सखी ।। १०.० ॥
श्रुत्वेत्यशनिसंकाशं सुहृदो वीक्ष्य विक्षतान् ।
जवेन स तुरङ्गस्थः क्षत्रियान्कुपितोऽन्वयात् ।। १०१ ।।
भुजगेन संखङ्गेन कीर्तिनिर्मोकशालिना ।
व्यसूविधाय सहसा राजन्यान्प्रापः ता प्रियाम् ॥ १२ ॥