पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
काव्यमाला ।

साब्रवीद्विष्णुना दग्धः पितास्माकं विरोचनः ।
सिंहेन तत्प्रयुक्तेन संनिरुद्धं पुरं च नः ॥ ७९ ॥
श्रुत्वेति ललनावाचं स जघान महाहरिम् ।
खङ्गरत्नं ददौ तस्मै शापमुत्तोऽथ केसरी ॥ ८ ॥
असुरेन्द्रसुता चाग्र्यं वितताराङ्गुलीयकम् ।
विषापहारं तत्प्राप्य से प्रायात्प्राचितस्तथा ।। ८१ ॥
खातुं मनः पुनर्गङ्गाकूलादेवोन्ममज्ज सः ।
वयस्यात्तत्र शुश्राव नृपेश पितरं हतम् ॥ ८२ ॥
भावी नृपः सुतोऽस्येति श्रुत्वा विक्रमशक्तिना।
श्रुत्वेत्युजयिनीं गन्तुं प्रस्थितो भृशदुःखितः ।। ८३ ॥
वयस्येन सहाटव्यां ददर्शान्दिनीं स्त्रियम् ।
मा भैषीरिति तामुक्त्वा तथैव संहितो निशि ॥ ८ ॥
प्रविश्य शून्यनगरीं तामपश्यन्निशाचरीम् ।
तयैव भक्षितं दृष्ट्वा वयस्यं कोऽपि कम्पितः ।। ८५ ॥
धीरो जग्राह केशे तां कालोत्तालितायुधाम् ।
सा गृहीता दृढं तेन प्राप्य शापान्तमभ्यगात् ॥ ८ ॥
कौशिकेनास्मि शप्ता प्राक् तपसो विनकारिणी !
स्वल्करस्पर्शपर्यन्तः शापोऽयं विगतो मम ।
इत्युक्त्वा निष्ठुरं नाम तयस्यमजीवयत् ॥ ७ ॥
सतो जमाथि पुनः श्रीदतोऽस्यान्वयस्वकान ।।
गाय खरं गृहे तस्थौ सुहृदो बाहुशालिनः ॥ ८ ॥
ततः कदाचिन्मत्तालिमालिताशोकचम्पके ।
वसन्ते सखिभिः सार्धमुद्याने विवहार, सः ॥ १६ ॥
वत्रापश्याचपलता चाभरालोलितालकाम् ।
विभूतिमिव रूपस्य विश्रमस्येव संपदम् ॥ ९ ॥
लक्ष्मीमिव शशाङ्कस्य कुसुमेषोरिव स्त्रियम् ।


उस... जोनास प्रेषितस्तया काम