पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
काव्यमाला ।

रणातुरंगमादाय विपुलावातपीडितम् ।
प्रययौ हर्षसंपूर्ण समारुङ्गप्रियासखः ॥ १०३ ।।
विकटामटवीं प्राप्य तुरगे पञ्चतां गते ।
अध्वश्रमार्ता दयितं कान्ला जलमयाचतः ॥ १० ॥
तृष्णार्तां तां तरुतले निधाय स जलाशयान् ।
स्वङ्गद्वितीयोऽरण्येऽथ बभ्रामोद्धान्तमानसः ।। १०५॥
अत्रान्तरे सहस्रांशी पद्मिनीविरहादिव ।
प्रविष्टे जलधौ सान्द्रतमाखनुजजृम्भिरे ।। १०६ ।।
तमालतालव्यालोलमत्तालिकुलमांसलैः ।
स विसस्मार तद्वर्त्म तमोभिर्दुर्नयैरिव ॥ १०७ ।।
हा प्रिये के नु लप्स्यामि शोचन्निति ससंभ्रमम् ।
नाससाद बनस्यान्तं व्यसनस्येव दुर्मतिः ॥ १०८ ॥
ततः प्रभाते दयितावियोगविधुराशयः ।
न्यग्रोधमधिरुह्याशु विलोक्य चिललाप सः ॥ १०९ ॥
वृक्षमूलधृतं खङ्गं तस्य तोयजिवृक्षया ।
जहार शवराधीशो दुःखं दुःखे हि वर्धते ।। ११० ॥
स तमाह प्रिया नूनं तब पल्लीनिवासिभिः ।
मद्भृत्यैरेत्य या नीता तामन्विष्य स्वयं व्रज ॥ १.११ ॥
ततः प्रतिनिवृत्तस्य सह दास्यामि ते सखे ।
श्रुत्वति सह सद्भूत्यैर्ययौ पल्ली स्खलद्गतिः ।। ११२॥
तत्र भ्रान्तश्चिरं श्रान्तः क्षणं निद्रावशं गतः ।।
भल्लैटुंगोपहाराय निबद्धो बाहुशृङ्खलैः ॥ १.१३ ।।
ततो नेलोत्पलच्छाया जिसकर्णशिखण्डिका ।
शाबरेन्द्राला वीक्ष्य ते सरव्याकुलाभवत् ।। ११४ ॥
रस बिम्बाधरशोणाशुव्यक्त गुञ्जाफलतजम् ।
पुलिन्दसुन्दरीं भेजे तां कान्तासंगमाशया ॥ ११५ ॥


ततो नेनोपली क्षामा ख. ४. बद्ध म.