पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे-श्रीदत्ताख्यायिका ।।
४३
वृहत्कथामञ्जरी

ततः सा दोहदुव्यक्तगर्भजम्भालसा शनैः
अमोचयत्तं दयिता पुनदर्शनसंविदा ।। ११६ }
तया श्रीदण्डसुतया सुन्दर्या मुक्त बन्धनः ।
मत्सङ्गो जनकादायस्तामित्युक्त्वा विनिर्ययौ ॥ ११७ ॥
स मृगाङ्कवतीमेव विचिन्वन्कानने चिरम्
चचार विश्थगतियूथभ्रष्ट इव द्विपः ॥ ११८ ।।
अपि कष्टाशेनामार्गे प्रिया दृष्टेति वादिनम् ।
ते वृद्धशबरोऽभ्येत्य जगदे जीवयन्निव ॥ ११९॥
शोचन्ती स्वामदुःखाहीं सा मया तव वल्लभा ।
दृष्ट्वा श्रीदत्तकृपया रक्षिता च सुता यथा ॥ १२० ॥
सा शशाङ्कमुखी मुग्धा तरुणी पल्लिवासिभिः ।
कान्वेति माथुरं ग्रामं नीता नागस्थलं मया ॥ १२१ ।।
साधोर्द्विजन्मनो गेहे विश्वदत्तस्य मानिनी
न्यस्ता तत्र स्वयं गच्छेत्युक्त्वा तं शबरो ययौ ।। १२२ ॥
तच्छ्रुत्वा मारुतजवो विश्वदत्तं समेत्य सः ।
देहि प्रियामिति प्राहः स च प्रीतस्तमभ्यधात् ।। १२३ ।।
अमात्यः शूरसेनस्य नृपतेरभयाभिधः
द्विजन्मा तस्य सा गेहे मया न्यस्ता तपखिली ॥ १२४॥
श्रुत्वेति गन्तुकामोऽथ खातुं यातः स दीपिकाम् ।
चौरबद्धमहाहारं व्यत्ययात्प्रायः कर्पटम् ।। १२९ ।।
तं तु दृष्दैव राजाह मुक्ताहारं वहन्पथि ।
अवाप्तो राजपुरुषैर्भय॑मानो व्यकृस्पतः ।। १२६ ।।
तं बधाय समाकृष्ट राजडिण्डिमघोषणैः ।
निर्गता ब्राह्मणीमध्ये ददर्श निजबल्लभम् ॥ १२७ ।।


संगमन्य' स. २. 'सख. ३. ज्ञात्वेति ख, ४. 'मन' ख. ५. ख.