पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/31

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१.कथापीठे-पुष्पदन्तमाल्यवान्नामकथा ।।
३१
वृहत्कथामञ्जरी

संतप्ते मयि विज्ञातमुपाध्यायेन धीमता ।
श्रुत्येति सा वृषं मेने तं विषाणविवर्जितम् ॥ ६ ॥
ततो भयापदेशेन त्यक्त्वा तं हंसगामिनी।
प्रययौ भुभमनसं रमन्ते न हि योषितः ॥ ७० ॥
लज्जावमानविधुरस्तद्वियोगामितापितः ।
स मुमोहेन्दुबदनाध्यानस्तिभितलोचनः ।
अत्रान्तरे ब्रजन्व्योमा भगवान्पार्वतीपतिः ॥ ७१ ॥
तं विलोक्य कृपाविष्टो देव्या च खंयमर्थितः ।
दिदेश पञ्चचूडाख्यं गणं तद्वाञ्छिताप्तये ॥ ७२ ॥
स धूर्जटिसमादिष्टः समेत्य ब्राह्मणान्तिकम् ।
समाश्वास्य विहितब्रह्मवेषो ज्वलन्निवः ॥ ७३ ॥
द्विजं कृत्वा वधूवेशं वसुवर्माणमभ्यगात् ।
तमुवाच महीपालमिमां रक्ष सुषां मम ॥ ४॥
चिर यातसुतं यावद्भान्त्या द्रक्ष्यामि भूतले.
इत्युक्तो न्यासभूला ता तेतो जग्राह भूपतिः ॥ ७९ ॥
कन्यकान्तःपुरे राज्ञो धृत्वा तां ब्राह्मणो ययौ ।
स राजपुत्रीमालिङ्गच वधूवेषः शनैर्निशि ॥ ७६ ॥
कुर्वे किं नास्मि विज्ञातस्त्वया प्रज्ञासमन्विते ।
पुरा संज्ञानभिज्ञोऽहं मूोऽसीति विडम्वितः
त्वया स्मरशरैः सुभ्र सदा सर्वो विभुति
उक्त्वेति स्मरमञ्जयों सुन्दर्या संगतस्तया ।। ७८ ॥
ययावलक्षितः प्रातद्विजवेषधरं गणम्
गणोऽपि तं समादाय तरुणं जर्जराकृतिः ॥ ७९ ॥
उवाच गत्वा राजानं प्राप्तोऽयं तनयो मया ।
स्नुषां देहीति तच्छ्रुत्वा राजा ज्ञात्वा च तां गताम् ॥ ८ ॥


क. २. भीतो स्व.प्राह ख. 'संज्ञामदक्षते ख