पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
काव्यमाला ।

विप्रो गोविन्ददत्ताख्यो बभूध श्रुतिपारगः ।
पञ्चासंस्तस्य तनयाः सुरूपाः शास्त्रवर्जिताः ॥ ३३ ॥
मूर्खान्विनष्टमर्यादास्तान्दृयाभ्यागतो द्विजः ।
वैश्वानराभिधस्तेषां निनिन्द पितरं क्रुधा ।। १७ ।।
गोविन्दुदत्तोऽप्यभ्येत्य प्रसाद्य क्रुद्धमप्रजम् ।
शुशोच तनयान्मौनी चण्डालानिव वर्जयन् ॥ ५८ ॥
ततः कनीयाञ्ज्येष्ठश्च पुत्रकौ तस्य लज्जया ।
जग्मतुस्तपसा द्रष्टुं देवदेवं त्रिलोचनम् ॥ ५९॥
विचित्रमाल्यैर्वलयैरर्चयित्वा महेश्वरम् ।
तद्वरान्माल्यवान्नाम योऽभवत्सोऽहमग्रजः ॥ १० ॥
घन्योऽपरश्च यतधीर्वरं प्राप्य महेश्वरात् ।
कालेन भुत्तासंभोगो गणला प्राप्स्यतीति सः ॥ ६१ ॥
चन्द्रमौलेबरें प्राप्य विद्यार्जनरतो महीम् ।
प्रान्त्वा गुरु वेवैकुम्भमवाष श्रुततत्परम् ॥ १२ ॥
स कदाचिच्छ्रियं नाम भूपतेर्वसुवर्मणः ।
ददर्श योधनवती तनयामतनुहुतिम् ॥ १३ ॥
सापि स्मरेणाभिहता तेन रूपवशीकृताः ।
संज्ञा दन्तेन पुष्पाणि खण्डयन्ती मुहुर्व्यधात् ॥ ३४ ॥
संज्ञानभिज्ञो विवशः पुष्पचापशिलीमुखैः ।
तदन्वर्थमुपाश्यायाद्विवेद सरलाशयः ॥ ६ ॥
उद्याने पुष्पदन्ताख्ये गूढं संवित्तया कृता ।
गुरोः श्रुत्वैव तत्रैव प्रयातस्तामवाप्तवान् ॥ १६ ॥
तामासाद्य सुधासिक्तशरीर इच कालरः ।
जग्राह कण्ठे सोत्कण्ठमुत्कण्ठस्मरलालसः ॥ १७ ॥
सा बभाषे तमानन्दमन्दिरं स्मितमुन्दरी ।
कथं ज्ञाता त्वया संज्ञा पृष्ट इत्यब्रवीच्च सः ॥ ६८.॥


१.सित व. २ मा

समुत्तमायुत्तिा ला.प. तसंज्ञार्थ न्य