पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१.कथापीठे-पुष्पदन्तमाल्यवान्नामकथा ।।
२९
वृहत्कथामञ्जरी

अथाहमवदं ध्यात्वा गुणाढ्योऽहं यथार्थवाक् ।
पण्डितं त्वां विधास्यामि पञ्चभिर्वत्सरैरिति ॥ ४ ॥
ततोऽब्रवीच्छर्ववर्मा मासैः षड्भिबहुश्रुतम् ।
अहं नृपं करिष्यामि विश्राम्यन्तु भवद्विधाः ॥ ४ ॥
इति श्रुत्वा विहस्थाहं कुपितस्तारमभ्यधाम् ।
भाषान ये भविष्यामि मौनीपारंगते त्वयि ॥ ४६ ।।
शर्ववर्माब्रवीदस्मि वोढा द्वादशवत्सरान् ।
त्वत्पादुके प्रतिज्ञेषा यदि मे न फलिष्यति ।। ४७ ॥
प्रतिज्ञायेति तपसा विलोक्य वरदं गुहम् ।
स कातन्त्रेण नृपति मासैश्चक्रे बहुश्रुतम् ॥ १८ ॥
ततः पराजितो मौनी नृपेण स्थातुमर्थितः ।
शिभ्याभ्यां सहितो. दुःखांद्यात्तोऽहं दिशमुत्तराम् ॥ १९ ॥
तपसा तत्र रुद्राणी दृष्ट्वा तद्वचसा ततः
त्वामासाथ गते शापे मया जातिः स्मृता सखे ॥ ॥
ज्ञात्वा देवीप्रसादेन त्यक्तभाषात्रयोऽज्यहम् ।
पैशाचीमनुपशसंस्कृतप्राकृतां श्रितः ॥ ११ ॥
गुणाढ्यकथा॥
गुणाढ्येनेति कथितं श्रुत्वा संहृष्टमानसः ।
काणभूतिः पुनः प्राह मुमुक्षुः शापबन्धनात् ॥ १२ ॥
त्वदागमनमद्यैव मन्त्रिणा कथितं निशि ।
मम दिव्यदृशा धन्यं रक्षसा भूतिवर्मणा ॥ १३ ॥
इदं कथय लाक्त्त्वं विपुलं कौतुकं हि मे।
त्वं कथं माल्यवान्नाम्ना पुष्पदन्तः कथं च सः॥ ६४ ।।
इति पृष्टः पिशाचेन गुणाढ्यः प्राह दिव्यधीः ।
द्विजाग्रहारे जाह्नव्यास्तीरे बहुसुवर्णके ॥ ५५ ॥


ख... २, गामि ख... मौनं स. ४. "मिनेण ख