पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
काव्यमाला ।

श्वेनरूपेण शक्रेण शिविर्नरपतिः पुरा ।
परीक्षितो भ्रमन्त्येवं देवा इति भयान्नृपः ॥ ८१ ॥
द्विजं प्रसाद्य प्रणतो निजां बुहितरं ददौ ।
एवं गणनभावेन प्राप्य राजसुतां द्विजः ॥ ८२ ॥
तस्यामुत्पाद्य तनयं महीपालं महीधरम् ।
पुष्पदन्तो गणः सोऽभूत्तयैवोद्यानसंज्ञया ।। ८३ ॥
पुष्पदन्तमाल्यवान्नामकथा ||
श्रुत्वा गुणाढ्यकथितं काणभूतिरुवाच तम् ।
शोणितेन लिख क्षिप्रं सतानां चक्रवर्तिनाम् ॥ ८६ ॥
कथां विद्याधरेन्द्राणां कथयामि स्थिरो भव ।
इति श्रुत्वा लिलेखाशु सप्तलक्षाण्यनन्यधीः ।। ८५ ॥
प्राहिणोता लिखित्वा च शातवाहनभूभुजे ।
स च लक्ष्मीमदोन्मत्तो नामन्यत विशृङ्खलः ॥ ८६ ॥
पैशाचीवाग्मधीरक्तं मौनोन्मत्तश्च लेखकः ।
इति राजाब्रवीत्का वा वस्तुसारविचारणा ।। ८७ ॥
बुद्ध्या तयजन्त्यनासाद्य मूर्खाश्चाचर्वणक्षमाः ।
श्रोतारों नाप्रसिद्धेषु राजता के सुभाषिताम् ॥ ८८ ।।
अवमानावधूतां तां कृत्वा मौनी बृहत्कथाम ।
व्याख्याय शिष्यसहितो समायोऽयानमारतवम् ।। ८९ ॥
जुहावाग्नौ महाकोपः पत्रं पचमनारतम् ।
तस्मिन्व्याख्यातरि कथा निःशेषमृगपक्षिणः ॥ ९ ॥
त्यक्तदाराः समभ्येत्त्य शुश्रुवुः, सानुलोचनाः ।
सततचन्ह कमांसाझी नृपतिर्मुशभातुरः ॥ ९१ ।।
विवेद लुब्धकागिरा मृगाणां शोषकारणम् ।
दृष्ट्वा सुमहदाश्चर्यमाययौ सातवाहनः ॥ १२ ॥


में खो विरुन्ति र स्व. ३. ते . तस्थुः स.