पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे-श्रीदत्ताख्यायिका ।।
३३
वृहत्कथामञ्जरी

लक्षैकशेषामासाद्य ततो राजा बृहत्कथाम् ।
शुशौच चर्वणासक्तप्रेक्षमाणः पदं पदम् ॥ ९३ ॥
सदा पूर्णः क्व शीतांशुः क्व दृष्टममृतं बहु ।
क्व वा हरमुखोद्गीर्णा लभ्यते निखिला कथा ॥ ९४ ॥
श्रुत्वा गुणाढ्यादखिलं वृत्तान्तं कौतुकाकुलः
ययौ तच्छिष्यसहितः समादाम नृपः कथाम् ॥ ९६ ॥
गुणान्योऽपि परिज्ञानवहिनिर्दुग्धविग्रहः ।
माल्यवस्पदमासाद्य विजहार हरप्रियः ॥ ९ ॥
राजापि तच्छिष्यसमर्पितश्रीरवाप्य पूर्वाभ्यधिकप्रभावः ।
कथां त्रिनेत्राननपनसूति सौभाग्यपूतां कथयञ्चहर्ष ।। ९७ ॥
इति क्षेमेन्द्रविरचिते बृहत्कथासारे कथापीउनामा प्रथमो लम्बकः समाप्तः ॥
कथामुखनामा द्वितीयो लम्बका।
प्रथमो गुच्छः
गुणान्येनेति लिखितां शातवाहनभूपतिः ।
वृहत्कथामकथयद्विदुषां सुहृदां पुरः ॥ १ ॥
महेश्वरात्पुष्पदन्तः काणभूतिरिमां ततः ।
तस्मागुणाढ्यस्तस्माच्च श्रुतवाज्यातवाहनः ॥ २ ॥
कान्ताकटाक्षवपुषे नमः कुसुमधन्वने ।
जायते येन सच्छायो विरसोऽपि भवद्रुमः ।। ३ ।।
मुजङ्गभङ्गिसुभगा कन्दर्पजयशालिनी ।
कौशाम्बी शांभवीव श्रीरस्ति खस्तिमत्ती पुरी ॥ ४ ॥
नीलरत्नमहासौधरश्मिवल्लिवितानके ।
यत्र रात्रिषु कुर्वन्ति तारकाः कुसुमभ्रमम् ॥ ५ ॥


'वायां बृहत्कथाथा' स्व. २. 'म्भ' ख. ३. शातवाहनभूपतिः'