पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लावॉनके हलभूत्याख्यायिका ।।
९९
वृहत्कथामञ्जरी

 
तदृष्ट्वा विस्मितात्यन्तमप्टच्छं कौतुकेन ताः ।
सख्यः कथं वो नमसा गतिरित्यूचिरे च ताः ॥ ३६९ ॥
महाकालप्रसादाच्च पूजनाच्च गणप्रभोः
महामांसाशनाच्चेयमस्माकं सिद्धिरुत्तमा ।। ३.७० ॥
छन्ना वयं च डाकिन्या काप्यूर्वव्यापिनी च नः ।
अस्त्यसौ कालरात्रीति सा चाहूता समेष्यति ॥ ३७१ ॥
ततो मदुपदेशाय समाहूता समाययौ ।
कालरात्री सखीभिर्मे कुम्भलम्बोदरस्तनी ॥ ३७२
अहं तद्दीक्षया क्षिप्रं महामांसाशनेन च ।
दृष्ट्वा देवं महाकालमभवं योगिनी ततः ॥ ३७३ ॥
मायारूपपरावृत्तिर्दृष्टिबन्धाभिचारके ।
मारणोच्चाटनाकर्षे जाताहं तद्गुणाधिका ॥ ३७४ ।।
तस्याः प्रच्छन्नडाकिन्याः कालरात्र्याः पतिर्द्विजः ।
विष्णुस्वामीत्युपाध्यायः श्रोत्रियोऽस्ति बहुश्रुतः ॥ ३७६ ।।
तस्य सुन्दरको नाम शिष्यो रूपेण सुन्दरः
कालरात्र्या युवा स्वैरं यांचितो रतिदक्षिणाम् ॥ ३७६ ॥
जननी गुरुभार्या मे त्वं पुत्रोऽहं तवानघे ।
इति सुन्दरकः प्राह प्रार्थ्यमानस्तया सकृत् ॥ ३७७ ॥
ततः क्षिप्रं स्वनखरैः सा विदार्य निजं वपुः ।
कृतं सुन्दरकेणेदमित्याह कुपिता पतिम् ॥ ३७८ ॥
उपाध्यायस्ततः क्रुद्धस्तं शिष्यं शिष्यसेनया ।
लगुडैर्जर्जरतनुं विधाय बहिरत्यजत् ॥ ३७९ ।।
स रात्रौ निर्जने त्यक्तश्चिरेणावाप्तजीवितः ।
उत्थाय शून्यं गोवाटमविशच्छङ्किताशयः ।। ३८०
ततोऽर्धरात्रे निर्यातामपश्यड्डाकिनीवृताम् ।
कालरात्रीमुपाध्यायदयितां भीषणाननाम् ।। ३८१ ॥


“प्युपाध्यार्थिनी च ख. २, योगिनी ख. ३. रवा ख.