पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
काव्यमाला ।

पुत्रार्थं न त्वया देवि पूजितो विघ्ननायकः ।
इति पत्युगिरा गौर्या प्राप्ते विघ्नेऽर्चितोऽथ सः ॥ ३५६ ।।
ततो वर्षसहस्रान्ते श्रमालॊ हव्यवाहनः ।
तत्याज गर्भं गङ्गायां साप्यधत्त तमुत्कटम् ॥ ३५७ ॥
जाह्नवी तारकास्ता तं शंभोर्वचसात्यजत् ।
सुमेरोर्दक्षिणे पार्श्वे सहलांशुसितद्युतिम् ॥ ३९८ ॥
कृत्तिकारक्षितः श्रीमान्रक्षितो हरकिंकरैः ।
पण्मुखस्तेजसा चक्रे सज्वालाजटिला दिशः ॥ ३५९ ॥
नारदस्य गिरा ज्ञात्वा दृष्ट्वा च तमतिप्रभम् ।
सहस्राक्षो मुमोचाशु तस्मै वज्रं पुनः पुनः ॥ ३६० ॥
वज्रप्रहारैस्तनया बभूवुस्तस्य दुर्मदाः ।
शाखो विशाखा सुमुखश्चेति शक्रदवानलाः ॥ ३६१ ॥
अथोत्थिते कार्तिकेयडिम्भे समरदुर्मदे ।
वासवस्तम्भितकरे दुद्रावैरावणो रणे ॥ ३६२ ॥
ततस्त्रिलोचनोऽभ्येत्य सुरेन्द्रकृपया शिशुः ।
सान्वितः सह पार्वत्या शक्रे प्रीतिं च लम्भित्तः ॥ ३६
ततोऽभिषेके पृतनापत्ये तस्याशु कल्पिते ।
हरेः सकुलिशो बाहुः स्तम्भतां विनतो ययौ ॥ २९४ ॥
अथ शर्वस्य वचसा पघूजिते रंगनायके
चित्रप्रशान्त्या शक्रस्य बाहुः स्तम्बादमुच्यते ॥ ३६५ ॥
हेरम्बेस्यामिषिक्तोऽथ स्वयं सेनामवाप्य सः ।
दिव्यकान्त्या महासेनो न्यवधीत्तारकासुरम् ।। ३६३ ॥
एवं महाप्रभावोऽयं प्रणम्यो विघ्ननायकः ।
सखीनामित्यहं वाक्यात्ततस्तमगमं मुदा ॥ ३६७ ॥
गणेन्द्रमश्वत्थतले पूजयित्वा महेश्वरम् ।
सखीनां सहसावश्यमाकाशेन गतागतम् ॥ ३६८ ॥


१. 'सम ख. २. वर्धितः

ख. ३. 'द्रन्तुं तम' ख. ४. 'द ख, ५. हमीश्व ख.