पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लाचानके हलभूत्याख्यायिका ।।
९७
वृहत्कथामञ्जरी

 
ध्यात्वेति शक्रः पञ्चेषु दिदेश मधुना सह ।
स गत्वा शंकरमनःक्षोभायाक्षयसायकः ।
चक्रे तपोवनं शंभोरकालमधुमण्डितम् ॥ ३४४ ॥
सहसोत्फुल्लककुभशोककेसरकिंशुके ।
तत्र त्रिलोचनं कामो विव्याधोन्मादनेषुणा ॥ ३४५ ॥
विकारं मनसो दृष्ट्वा कुपितत्रिपुरान्तकः ।
स्मृतिशेषं स्मरं चक्रे भाललोचनवह्निना ।। ३४६ ॥
तद्दुःखात्साश्रुनयनां देवीं पुत्रार्थिनीं हरः ।
उवाच देवि विघ्नेशः, पुत्रार्थं नार्चितस्त्वया ॥ ३४७ ॥
इत्युक्ते भगवान्देवैरर्थ्यमानो मनोभवम् ।
चकार मानसावासं द्विगुणोत्साहदर्पणम् ॥ ३४८ ॥
अथ तारकवित्रस्तत्रैदशत्राणमात्मजम् ।
स्रष्टुं सती रतक्रीडां भेजे शीतांशुशेखरः ॥ ३४९ ॥
सहस्रं दिव्यवर्षीणां शंकरे रतितत्परे ।
लुठद्गिरिवरोद्धृतसागरा विचचाल भूः ।। ३६० ।।
ततो भीतैः सुरैः सर्वैः परमेष्ठिगिरानलः ।
त्रिनेत्ररतिविघ्नार्थमन्विष्टो न व्यदृश्यते ।। ३५१ ॥
शुकभेकगजैर्ज्ञात्वा प्रच्छन्नोऽग्निर्निवेदितः ।
सदा जिवापरावृत्तिः शापं तेभ्यो ददौ तदा ॥ ३५२ ।।
याचितोऽथ सुरेन्द्रेण शर्वस्य सुरतोत्सवे ।
विवेश सूक्ष्मवेषाभिर्विरराम ततः शिवः ॥ ३६३: ।।
विरतो रेतसो वेगं चिक्षेपाग्निमुखे हरः ।
को हि माहेश्वरं तेजो विनाग्निं धर्तुमीश्वरः ॥ ३५४ ॥
ततो गिरिसुता कोपाच्छशाप सुरमण्डलम् ।
मा वः सदृशसंसर्गजन्मा कस्य सुतोऽस्त्विति ॥ ३५५ ॥


१. कमला ख.