पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
काव्यमाला ।

तदुत्पतनमन्त्रेण दिवमुत्पतिते गृहे ।
सगोवाटे स जग्राह तन्मन्त्रं धीमतां वरः ॥ ३८२ ।।
प्रान्त्वा प्रतिनिवृत्तायां पुनस्तस्याः क्षपाक्षये ।
सच्त्रशालाश्रितः सोऽथ पुनरेत्यार्थितस्तया ॥ ३८३
अद्यापि मन्मथरुचे भज मां स्वयमागताम् ।
उपाध्यायवधूं याहि देहि जीवितदक्षिणाम् || ३८४ ।।
इत्युपाध्यायिनीवाक्यं श्रुत्वा कर्णौ पिधाय सः ।
जगाम धर्ममर्यादा लङ्घयन्ति न साधवः ।। ३८६ ।।
प्रत्याख्यानं रुषाभ्येत्य विष्णुस्वामी पुनस्तया ।
त्वच्छिष्येण हतास्मीति गिरा कोपाकुलः कृतः ।। ३८६ ।।
उपाध्यायोऽथ तत्कोपादविज्ञाय तदाशयम् ।
तस्य भोजनमभ्येत्य सन्त्रशालां न्यवारयत् ॥ ३८७ ।।
स चोत्पतनमन्त्रज्ञः पंवन्संत्रासमाययौ |
पुनस्तमेव गोवाटं तत्रापश्यच्च तां निशि ॥ ३८८ ॥
तासामुत्पतितानां च स्थितः प्रच्छन्नवाटके ।
मूलकानां चयं प्राप महार्थं दूरदेशगः ॥ ३८९ ॥
तद्विक्रये प्रभातेऽथ स तदाहृतिसंगतैः ।
नीतो विवादो नृपतेः पुरस्तादवदन्च सः ॥ ३९० ।।
प्रासादमधिरुहोमं देवं विज्ञापवाम्यहम् ।।।
इति प्रसादमारुह्य मन्त्रेणोत्पत्य दूरगः ॥ ३९१ ॥
द्वितीयं नृपमभ्येत्य प्राहाहं धूर्जटेर्गणः ।दीयतां हेमरत्नानि मह्यं माहेश्वरो ह्यसि ॥ ३९२ ॥
इत्युक्त्वा विपुलैश्वर्यं तस्मादासाद्य हर्म्यगः ।
यदृच्छोपगतां सिद्धिं प्राप्य मन्त्रं निपातितम् ॥ ३९३ ।।


पानावरालमा व 'अलंकारान्वयं प्रापं महायान् दूरदेशमः ख.

निर्विवाद ख.