पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. कथापीठे-पाटलिपुत्रकथा ।।
बृहत्कथामञ्जरी

शंकरस्वामिनामाभूद्ब्राह्मणो वेदपारगः
वर्षोपवर्षौ तस्येमौ तनयावतनुत्विषः
संप्राप्य विद्यामतुलां विश्रुतो लोकपूजितः ॥ २४ ॥
कनीयानुपवर्षोऽस्य मम भर्तुर्महाधनः ।
ज्येष्ठश्चासावविज्ञातो मौर्ख्याद्दारिद्र्यमन्दिरम् ॥ २५ ॥
ततः कदाचिद्विभवोन्मत्ता सरलचेतसे ।
उपवर्षस्य दयिता स्वयं वर्षाय निस्त्रपा ॥ २६ ॥
भक्ष्यं जघनमुद्राङ्कं पिष्टोद्वर्तननिर्मितम् ।
ददौ प्रहृष्टस्तत्प्राप्य स च मह्यं न्यवेदयत् ॥ २७ ॥
स्नानप्रयासचकिता रजसो विनिवृत्तये ।
कुर्वन्ति शीतकालेषु स्त्रियस्तद्विगतत्रपाः ॥ २८॥
तमालोक्यास्मि निर्विण्णा त्यक्ता थूत्कृत्य भूतले ।
हा हता मूर्खभार्याहमित्यशोचमधोमुखी ॥ २९ ॥
विमृष्य लज्जितः क्षिप्रं गत्वा चक्रे ततस्तपः।
वर्षो येनास्य भगवानभवद्वरदो गुहः ॥ ३० ॥
देयं श्रुतधरायेदं ज्ञानमित्याप्तशासनः
सर्वज्ञतामवाप्यासौ पुनः प्राप्तः स्वमन्दिरम् ॥ २१
इत्युपाध्यायिनीवाक्यं श्रुत्वावां प्रणातौ गुरोः ।
आज्ञां श्रुतधराह्वाने प्राप्य भ्रान्तौ महीतलम् ॥ ३२ ॥
कालेन त्वद्गृहे मातर्दृष्टोऽसौ तनयस्तव
यथार्थनामा मतिमानयं श्रुतधरः शिशुः ॥ ३३ ॥
आवां वररुचिश्चायं त्वद्दत्तो वर्षमन्दिरम् ।
विद्यार्थिनः स्वस्तिमन्तो गच्छामः शाधि नः शिवम् ॥ ३४ ॥
ताभ्यामभ्यर्थिता माता कथंचिदथ मां शिशुम्
आदिदेशाश्रुवदना प्रत्यम्रविहितव्रतम् ॥ ३५ ॥


ख. २. ततो मानाभ्यनुज्ञातं कथंचिद्धबाष्पया' इति कथासरित्सागरे.

ख. २. ततो मानाभ्यनुज्ञातं कथंचिद्धबाष्पया' इति कथासरित्सागरे.