पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
काव्यमाला ।

हृष्टस्तदनुगः प्राप्य वर्षवेश्म शनैरहम् ।
तस्मात्प्राप्याखिलान्वेदान्विद्यानामाश्रयोऽभवम् ॥ ३६ ॥
ततः कदाचिदेकान्ते भुक्तान्ते समवस्थितः ।
पृष्टः पाटलिपुत्रीयामुत्पत्तिं प्राह मे गुरुः ।। ३७ ।।
अनावृष्टिहते काले भ्रातरो ब्राह्मणास्त्रयः ।
भार्यास्तिस्रः परित्यज्य पुरा जग्मुर्दिगन्तरम् ॥ ३८ ॥
अजीजनत्सुतं काले तासामेकैव गर्भिणी।
हेमलाभः सदा तस्य मूर्ध्नि गौरीपतेर्वरात् ॥ ३९ ।।
प्रत्यहं खलु लब्धेन सहस्रेण स बालकः ।
कालेन पुत्रकाभिख्यः प्राप्य राज्यं जनप्रियः ॥ ४० ॥
तस्मिन्हरार्चनरते दातरि व्यक्तिमागते ।
भ्रान्त्वा दिगन्तानाजग्मुर्भिक्षार्थं ते द्विजास्त्रयः ॥ ४१ ॥
विज्ञाय जननीवाक्यात्पुत्रकस्तान्महीपतिः ।
पितरं च पितृव्यौ च सदा हृष्टोऽभ्यपूजयत् ॥ ४२ ॥
सुखोषितास्ते शनकैः संभोगादृप्ततां ययुः ।
कं वा नाभिनवा लक्ष्मीर्वारुणीव विमोहयेत् ॥ १३ ॥
तेषां बुद्धिरभूद्बाढमस्मिन्पुत्रे निपातिते ।
स्वयं राज्यमवष्टभ्य तिष्ठाम इति निश्चिताः ॥ ४४ ॥
ते विन्ध्यवासिनीपूजामपदिश्यात्मजं नृपम् ।
निन्युर्गृहं समाधाय तद्वधाय महाभटात् ॥ ४५
तिद्विज्ञाय गुरूणां स प्रतीकारपराङ्मुखः ।
विन्ध्याटवीं विवेशैकस्त्यक्तराज्योऽथ पुत्रकः ॥ ४६ ॥
पुत्रके त्यक्तराज्येऽथ जाते तेषां द्विजन्मनाम् ।
राज्यं हृतं कातराणां शत्रुभिर्बलवत्तरैः ॥ ४७ ॥
पुत्रकोऽप्यटवीं प्राप्य निर्जनां धैर्यसागरः ।
अमर्त्योचितसंचारमवाप गिरिकन्दरम् ॥ १८ ॥


प्रभुत्युत्सवः स.