पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

स तेन पृष्टोऽकथयन्निजाश्चर्यमयीं कथाम् ।
द्रष्टुमभ्युत्सुकः शंभुमवाप्य निजसंविदम् ॥ १३ ॥
कौशाम्ब्यामभवद्विप्रः सोमदत्तापराभिधः ।
अग्निसोमः श्रुतेः क्षेत्रं पवित्रचरितव्रतः । १४ ।।
तस्याहं वसुदत्तायां जातः श्रुतधराभिधः ।
कात्यायनो वररुचिश्चेत्यन्वर्थकृताह्वयः ॥ १५ ॥
बालस्य मम कालेन याते पितरि पञ्चताम् ।
प्रतिश्रयार्थिनौ पान्थावस्माकं विशतुर्गृहम् ।। १६ ॥
व्याडीन्द्रदत्तनामानौ तौ स्म मतिमतां वरौ ।
ततो यदृच्छयायातनटनृत्यानुकारिणम् ॥ १७ ॥
यथा दृष्टघनातोद्यगीताभिनयकोविदम् ।
विस्मयं जग्मतुर्वीक्ष्य ज्ञानग्रहणधारणैः ॥ १८
अतीतविस्मितौ क्षिप्रं प्रहर्षोत्फुल्ललोचनौ ।।
विज्ञाय नामधेयं मे मन्मातरमवोचताम् । १९ ।।
ब्राह्मणौ वेतसपुरे वशिष्ठकुलसंभवौ।
करम्मो देवसोमश्च श्लाघ्यमानौ बभूवतुः ॥ २०
मातस्तयोः स्वतनयौ भ्रान्तौ विद्यार्थिनौ महीम् ।
पुरं पाटलिपुत्राख्यं कार्तिकेयवराद्गतौ ॥ २१ ॥
विद्या वर्षद्विजे सन्ति प्राप्येति स्कन्दशासनम् ।
प्रहृष्टवदनौ तत्र प्रविष्टौ वर्षमन्दिरम् ॥ २२ ॥
निवेद्य निजवृत्तान्तं वर्षोपाध्यायगेहिनी ।
आवाभ्यां गुरुवृत्तान्तं पृष्टा प्राह प्रियंवदा ॥ २३ ॥


जामोश्चय कयामत मिप्यु खः ३. 'प्रायश्चित्ता ख. ४. 'पान्यौ पार्थो विविशताइन् । इति स्व पुस्तक प्राडा, परंतु दावस्मदृहमकदा' इति कथास- रित्सागरसनादतो छौ को विषिशतर्गदम् इति पाठ: साधीयान् शतीयते, यहा विस्मात विधातो ग्रहमा इत्यपि साधीयान्, स्मयोगे लटः साधुत्वात. ६.यादी खान अन्त्य विस्यैः।