पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. कथापीठे-पाटलिपुत्रकथा ।
बृहत्कथामञ्जरी ।

द्वितीयस्तरङ्गः।

 
अवतीर्य धरां शापात्पुष्पदन्तो गणाग्रणीः ।
चिरं भूत्वा महामात्यो योगनन्दस्य भूपतेः ॥ १ ॥
मुहुर्निःसारसंसारकलनां कलयन्धियः ।
कात्यायनाभिधो द्रष्टुं प्रययौ विन्ध्यवासिनीम् ॥ २ ॥
तपसा दर्शनं प्राप्य देव्यास्तद्वचसा गुहाम् ।
गत्वापश्यन्महाभूतं पिशाचनिचयाचितम् ॥ ३ ॥
काणभूतिं तमासाद्य पूजां प्राप्य द्विजोचिताम् ।
पप्रच्छ विकटाकारमटवीवासकारणम् ॥ ४ ॥
स पृष्टः प्राह न्यक्षोऽहं पापमित्रनिषेवणात् ।
शप्तो धनाधिपतिना घोरां प्राप्तः पिशाचताम् ॥ ५ ॥
इदं निरुदकं स्थानं शुष्ककण्टकिपादपम् ।
शापोपनतमत्युग्रं पापेनाधिष्ठितं मया ॥ ६ ॥
भविता शापमोक्षो मे पुष्पदन्तसमागमात्।
स्म(श्म)शानवासिनः शंभोः श्रुतं कथयतो मया ॥ ७ ॥
निशम्येति वचस्तस्य शनैः कात्यायनः कथाम् ।
सस्मार पुष्पदन्तोऽहमिति संविदमास्थितः ॥ ८॥
काणभूतिस्ततस्तस्माच्छुश्रावाश्चर्यशालिनीम् ।
कथां विद्याधरेन्द्राणां सप्तानां चक्रवर्तिनाम् ॥ ९ ॥
त्वामभ्येत्य यदा मौनी ब्राह्मणो दक्षिणापथात् ।
गुणाढ्यः श्रोष्यति त्वत्तः कथामेतां मयोदिताम् ॥ १० ॥
तदाशापान्तमासाद्य भ[१]वान्स च गमिष्यतः ।
इति कात्यायनः प्राह कथान्ते तमुदारधीः ॥ ११ ॥
म[२]हत्तमं तमालक्ष्य तपसा मर्त्यविग्रहम् ।
पप्रच्छ जन्मवृत्तान्तं काणभूतिः कुतूहलात् ॥ १२ ॥


१. भवांस्तत्र गमिष्यति' क. २. 'त्यक्तुकामं तमालक्ष्य सहसा' ख.