पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
काव्यमाला ।

तस्यां गतायामुन्मत्तस्यक्ता भूमिपतेः सुताम् ।
हा भद्रेत्त्वप्तकृत्तरं विलपस्वन्न पर्यगात् ॥ २३ ॥
ब्रजन्नथ दिशा प्राची निश्वासालपिताधरः ।
स पुण्ड्वर्धनं नाम पुरं प्राप स्मरातुरः ।। २३७ ॥
तत्र विप्रगृहे वृद्धा तमाह ब्राह्मणी ततः ।
पुत्र सर्वं मम धनं गृहाणाभिमतोऽसि मे ॥ २३८॥
यतः स्वपुत्रविरहात्प्रियं त्यक्ष्यामि जीवितम् ।
दुःखलब्धाभिधा पुत्री देवसेनस्य भूपतेः ॥ २३९ ।।
इहास्ति येन येनासौ वृत्तायाति स पञ्चताम्
चारैहागृहात्तस्यै नीयन्ते पुरुषाः सदा ॥ २४० ॥
क्षयं यातेष्वनेकेषु मम पुत्रोऽद्य नीयते ।
तद्विनाथे विनाच्यामि तुल्य सर्वं तदास्यतः ॥ २४१ ।।
इति तद्वाक्यमाकर्ण्य करुणार्द्रो विदूषकः ।
अहं तत्र गमिष्यामि न नंक्ष्यामीत्युवाच ताम् ।। २४२॥
तया कृच्छ्रेण मुक्तोऽथ प्राप्य भूपालमन्दिरम् ।
क्षेत्र शय्यासनस्मेरं कन्यान्तः पुरमाविशत् ॥ २१ ॥
अथाययौ राजपुत्री तारहारा सुहासिनी ।
राहुग्रस्तस्य शशिनः स्रस्तेव श्रीः सतारका ॥ २३ ॥
सं तो केनापि न स्पृष्टां दृष्टा यौवनशालिनीन् ।
उद्द्असौरभभरां श्वभ्रजातो लतामिव ॥ १४५ ॥
अनासादितपर्याणां काम्बोजतुरगीमिवः ।
कौतुकाकुलितस्तस्थौ द्वारान्तनिभृतो निशि ॥ २४६ ।।
ततः करिकराकार ककचशं घोररक्षसः ।
सुजं प्रविष्टं द्वारेण ददर्शोद्भ्रान्तमन्तिके ॥ २४७ ॥


चुटमिशन

२. पापडवर्धन वं.