पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लाचानक-विदूषकाख्यायिका ।।
८७
वृहत्कथामञ्जरी

 
आगन्तव्यं पुनरिति स शुश्रावशरीरिणीम् ।
वाणीमभ्युद्यतो गन्तुं निशि व्याकोशलोचनः ।। २२३ ॥
तान्सिद्धसर्षपान्प्राप्य राजपुत्रीं विहाय सा।
नीत्वा विदूषकः क्षिप्रं चिक्षेपान्तःपुरान्तरे ॥ १२४ ॥
जनालोकनभीत्या मे गन्तुमभ्युद्यतं निशि ।
नृपात्मजा न तत्याच बिभेमि सुतरामिति ।। २.२६ ।।
तन्मन्दिरस्थिते तस्मिन्श्रमनिद्रावशं गते
सौविदल्लाः प्रविविशुः प्रातः कञ्चुकिभिः सह ॥ २२६ ।।
ते शयानं तमालोक्य कोपादेत्य व्यजिज्ञपत् ।
आदित्यसेनेः सोऽप्याशु तमाहूयाब्रवीत्क्रुधा ॥ २२७ ॥
किमेतदिति पृष्टोऽथ तद्वृत्तान्तं निवेद्य सः ।
अदर्शयन्नरपतेः साधकं कृतमस्तकम् ॥ २२८ ॥
राजा प्रत्ययमासाद्य हृष्टस्तस्मै ददौ सुताम् ।
श्रियं चोपकृतिप्रीत्या किमदेयं महात्मनाम् ॥ २२९ ॥
स तया संगतोऽनक्साङ्गीकरणविद्यया ।
राजपुत्र्या नृपोद्याने रराम रतिलालसा ॥ २३०॥
ततः कदाचित्कालेन स्मारितः प्रियया रहः ।
तामाकाशगिरं मोहात्प्रायात्त्स्वङ्गीं विदूषकः ॥ २३१ ॥
भद्रां नाम ततः प्राप्य पूर्वां रचितसंविदाम् ।
विद्याधरी यया नीतः स्मरो निःशङ्खमल्लताम् ॥ २३२ ॥
स तां पञ्चेषुविजयद्विपकुम्भोपमस्तनीम् ।
उद्भूतयौवनसरःसरोजललितेक्षणाम् ॥ २३३ ॥
फुल्लकान्तिलतासक्तभ्रमराकारकुन्तलाम् ।
आसाद्य सुस्तासक्तो विसस्मार नृपात्मजाम् ॥ २३४ ॥
याति काले पितुर्भीत्या मर्त्यसङ्गापराधतः ।
तमामन्त्र्योदयगिरिं सा ययौ सिद्धरक्षितम् ॥ २३६ ॥


१. "श्रमानिद्रा' रखा २. ने ख.३. चण्डी ख.