पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लावानके-विदूषकाख्यायिका ।।
८५
वृहत्कथामञ्जरी

 
अथ सादरमाहूय नरनाथो विदूषकम् ।।
प्रीत्या पुरोहितं चक्रे ददौ ग्रामांश्च तन्मठे ।। १९९ ॥
प्राप्य ग्रामान्महीपालाद्दर्पान्धास्तेऽभवद्विजाः ।
नानामताः स्वयं चक्रुः स्वास्यं स्वलु विशृङ्खलाः ॥ २० ॥
अहं प्रभुरहं स्वामी ममदेवं ममाखिलम् ।
इति तेषां समालापो बभूवः ग्रामलुण्ठने ॥ १०१ ॥
उत्सादितं मठे तस्मिंस्तृप्तस्तैबरद्विजैः ।
एकश्चक्रधरो नाम धिम्युष्मान्मन्त्रकण्टकान् ॥ २०२॥
पदे पदेऽश्ववित्रासकक्षा निक्षिप्तकुण्डिकाः ।
विदूषकप्रसादेन सा भिक्षा वोऽद्य विस्मृताः ॥ २०३ ॥
सह्याः कुम्भधृता विषोल्बणरुचः क्रुद्धा वर पन्नगाः
कल्लोलाकुलकूलनीलसलिले ग्राहास्तथोऽग्रग्रहाः ।
न त्वेते मठपुष्टदुष्टवपुषः षण्डाः स्वयं स्वामिनः
कष्टं घेतकचेतकोत्ककतनटीवावाहगोष्ठीहठाः ॥ २०४ ।।
स्त्रीनायकं वरं स्थानमथ वा बालनायकम् ।
अनायकं वरं यावन्न चैव बहुनायकम् ॥ २०६ ॥
अद्यैव शूले निहताः स्मशाने पुरुषास्त्रयः ।
यस्तेषां नासिका रात्रौ छित्त्वादाय संमेष्यति ।। २०६॥
अधुनैकः स नः स्वामी स्पर्धा हि मठनाशिनी ।
इति क्रुद्धद्विजगिरा तत्र ते प्राहुरग्रजाः ॥ २०७ ।।
स्मशानगमनं ध्यात्वा ते प्रभीताः ससंभ्रमाः ।
विदूषको ययौ खङ्गी केवची चोन्मुखो निशि ॥ २०४॥
सोऽपश्यद्राक्षसोद्दाममतिफेल्कारभीषणम् ।
उद्दण्डताण्डवोच्चण्डभूतमण्डलमण्डितम् ।। २०९ ॥


१. स्वैरबदहषाः ख. २. लोल खः ३. वण्डाः ख. ४. निष्ठुरचेटकोकटरदी-

खाबाटगोष्ठीभराः स. ५. 'करवीरोन्मुख, ६. 'मारी ख.