पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
काव्यमाला ।

उक्त्वेत्यदर्शयत्कन्या देहबद्धामिव द्युतिम् ।
विवाहनार्थं तां भेजे राजा राजीवलोचनाम् ।।.१८६ ॥
साथ तेजोवती नाम तमासाद्य नरेश्वरम् ।
जहार कान्तिं रोहिण्यास्तारापतिसमागमे ।। १८७ ॥
तदाननसुधापानमदमन्थरमानसः।
न रात्रिं न दिवं मेने स संत्यक्तनृपक्रियः ।। १८८ ॥
आक्रन्दित्तेन पौराणां मन्त्रिणां वचनेन च ।
भेजे संमुखतां किंचित्प्रजानां प्रत्यवेक्षणे ॥ १८९
तत्तः कदाचिद्योगयात्रायां तुरगोत्तमम् ।
आरोह वशे गत्वा भ्रष्टं रविरथादिव ॥ १९ ॥
सहायः पाणिसंस्पर्शरोषद्योयोमपतन्निव ।
जवाज्जहार राजानमप्रोष्य प्रसरत्पुखुरः ॥ १९१ ॥
स हृतोऽश्वेत सहसा व्यस्तनेवः विप्लुतः ।
निशि विप्रमठोपान्तमवापोगान्तमानसः ॥ १९२ ॥
तत्र प्रतिश्रयाकाली स निषिद्धो मठद्विजैः ।
रात्रौ स्माशानरक्षोऽयमिति वेदजडात्मभिः ॥ २३ ॥
तेषामेको महासत्वः शूरोऽभिजनभूषणः ।
विदूषकाभिधो वन्हिवरावाप्तासि दुःसहः ॥ १९४ ॥
रत्नभ्राजिष्णुकटकं राजानं दीक्षकुण्डलम् ।
तसिपवे निशि बात मान भोजन । ३६५ ॥
तस्तापवारमालानिधि सोऽमन्यतामृतम् ।
अल्पायुपकृतियोइत विस्तारं विषमस्थितौ ॥ १९६ ॥
ततः प्रभाते भूपालैः प्रणम्यारुह्य वाजिनम् ।
जातिस्मरो राजधानीं ययौ वेगधुतांशुकः ॥ १९ ॥
तूर्णं प्रणामते राज्ञि कल्पिते नगरोत्सवे ।
देवी तेजोवती कन्यामसूत कुलचन्द्रिकाम् ॥ १६८।।


ख. २. यस. ३. निरूपका स.