पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
काव्यमाला ।

तनये प्रेयसः प्रेम प्रौढमालम्बनं रतः ।
आवन्त्यमागधौ ज्ञात्वा दूतैर्निर्वृतिमापतुः ॥ १६२ ।।
कदाचिदथ राजानं सर्वास्थानसमागतम्
व्यजिज्ञपत् द्विजोऽप्येत्य प्रतीहारेण सूचितः ॥ १६३ ॥
एकपुत्रस्य पुत्रो मे देव गोपैर्नदोद्धतैः ।
अटव्यां निग्रहीतोऽयमश्रुताक्रन्दितो जनैः ॥ १६.४ ॥
इति ब्राह्मणविज्ञप्या समाहूता वनेचराः ।
ऊचुर्दृष्टो वने देव गोपालो देवसैनिकः ॥ १६५ ॥
राजास्मीत्याहितक्रीडा सदास्माभिः प्रणम्यते ।
वयमाज्ञाधरास्तस्य स्वयं प्रभुपदस्थितः ।। १६६ ॥
अयं यदृच्छयायातः प्रणनाम नतं द्विजः ।
ततोऽस्माभिस्तदादिनिकृतचरणः कृतः ॥ १६७ ॥
इति वाक्यान्महीपाले किंचिदाकुच्छिते अधि ।
योगान्धरायणः प्राह विमुष्य क्षणविस्मितः ।। १६८।।
महता कारणेनात्र भवितव्यं नरेश्वर
स्वयं तत्रैव गच्छामो यत्र मङ्गो नृपः स्थित ॥ १६९ ॥
इत्यामन्त्र्य गिरा राजा तुरगं प्राह सैनिकः ।
गवाससाद विपुलमटवीं गोपघर्षिताम् ॥ १७० ॥
यौगन्धरायनस्तत्र भुवमासाद्य यत्नवान् ।
ध्यानं विधाय जनकैर्महानिधिमदर्शयत् ।। १७१ ।।
क्षयं नीलशिलाकार पूजयित्वानिस्थितम् ।
चौविष्ठिर धनचर्य सिंहासनमवाय च ॥ १७२ ।।
पृथुरासनं प्राप्य निधानं च नरेश्वरः
स्वकं प्रविश्य कौशाब्म्यामादिदेश महोत्सवम् ॥१७३


विका व. २ गोपः ख. ३. 'मारूद स. ४, दशिलाम् ख. ५ माश्य

सात विधाय जनक ख... 'खान' छ।