पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लावानक- सोमप्रभाख्यायिका ।।
७९
वृहत्कथामञ्जरी

 
राजा विहितसेनाख्यः कपिलायामभूत्पुरा ।
तस्य तेजोवती नाम बभूवाभिनवा वधूः ।। १२६ ।।
स कदाचिज्ज्वराक्रान्तो वारितोऽपि भिषग्वरैः ।
न मुमोच प्रिया पार्थात्तन्मुखन्यस्तलोचनः ।। १२७ ॥
ततः संमध्य दुःखार्ता भिषग्भिः सह मन्त्रिणः ।
चक्रुर्मिथ्या स्मृता देवीं गूढमारोग्यकाङ्क्षिणः ॥ ११३८ ।
तया विरहितो राजा दुःखितः स्वास्थ्यमाययौ ।
मुक्तामयश्च तां प्राप स्मितमुक्तामयच्छविः ॥ १२९ ॥
सहन्ते दुःखमित्येवं साध्व्यो भर्तृहिते रताः ।
पत्युरभ्युदयं कृत्वा जीवितालम्बनं हृदि ॥ १३० ॥
इति विहितसेनाख्यायिका ॥ ९ ॥
श्रुत्वेति मंत्रिवचनं राजा लज्जानतोऽभवत् ।
आयासितं मनोदेव्या किं मयेति विमर्शधीः ॥ १३१ ॥
अहो सततदुःखाय कर्कशाय त्रिवृत्तयः ।
निवेदमाययौ ध्यायन्निति यौगन्धरायणः ॥ १३२ ॥
रतिमानव वत्सेशो मनोभव इवापरः ।
मनन्द यौवनोद्याने देव्योमध्ये महोत्सवे ।। १३३ ॥
बत्सराजप्रणयिनीं कृत्वा दूतेन मागधः ।
सुतां प्रेमपदं पत्युः सपत्न्याश्च धृतिं ययौ ।। १३४ ।।
संत्यक्तबटुवेषोऽथ हासयन्पूर्वचेष्टितैः ।
कथा बसन्तकः पृष्टः प्राह देवीं विनोदिनीम् ॥ ११९ ॥
अभवद्धर्मगुप्ताख्यो वणिक्पाटलिपुत्रके ।
तस्य सोमप्रभा नाम तनयाभूत्सितस्मिता ॥ १३६ ।।
उवाच जातमात्रैव सा स्फुटार्थपदान्वयम् ।
दातव्यास्मि न कस्मैचिदिति विद्योतितस्वरा ॥ १३७ ।।


छुचिस्मि' ख..