पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
काव्यमाला ।

सुरवारवधूरासीदुर्वशी तस्य वल्लभा ।
जातः शोको दिवा पाण्डुर्यन्मुखानजितः शशी ॥ ११५ ॥
स कदाचित्सुरपुरीमारुढो दैत्यसंयुगे।
सहायः सुरराजस्य ददर्श विजयोत्सवम् ॥ ११६ ।।
तत्र प्रवृत्ते शक्रस्य पुरा नृत्ते सुराङ्गनाम् ।
जहासाभिनयच्छेले वैदग्ध्यादुर्वशीप्रियः ॥ ११७ ।।
हासेन कुपितस्य प्राह क्रुद्धः शतक्रतुः ।
जियोगस्ते सहोर्वश्या भूयादिति शशाप तम् ।
प्रार्थितो नरराजेन स तच्छापान्तमभ्यधात् ॥ ११८ ॥
पर्यटन्पृथिवीमेष उर्वशीविरहातुरः ।
बदर्याश्रममासार्धं भगवद्दर्शनादिति ॥ ११९ ॥
ततो वियोगमासाद्य सरपादकतापितौ ।
उर्वशी च नरेन्द्रश्च तस्थतुनिधनाशया ॥ १२० ॥
तस्याहारलतापाशवः द्योगोऽभवत्पुनः ।
मोहो निःसहता कम्पश्चेति जीवितहेतवः ॥ १२६ ।।
याति काले स भूपालो मदनोन्मत्तमानसः ।
बदर्याश्रममासाद्य दुःसहं शापमत्यजत् ॥ १.२२ ॥
उर्वश्या संगतो राजा विजार ततः सुखी ।
इति दुःखानलस्यान्ते भवन्ति सुखसंपदाः ॥ १२ ॥
इयुदश्याख्यायिका ।।८॥
भवन्तिगाजतनया श्रुत्वेति नृपतर्वचः ।
विरहे निधनं नास्मि यातेत्यासीद्विलजिता ॥ १२४ ॥
विलक्ष्यविनतां देवीं दृष्या योगान्धरायणः ।
शादाचे राजानं युक्तिज्ञः श्रूयतामिति ॥ १२५ ॥

जनावान्यांना हि उमडक २'सु स्व. ३ मा र ४. ख-पुस्तके एसइतर बास गतिविम्याति । इत्युचो हाखिजर प्राचाहाजधानी निजां ततः ।

प्रियुक्त सदा दुर्जयो समान विवशो महीम् । इत्यस्ति


जनावान्यांना हि उमडक २'सु स्व. ३ मा र ४. ख-पुस्तके

एसइतर बास गतिविम्याति । इत्युचो हाखिजर प्राचाहाजधानी निज़ा ततः । प्रियुक्त सदा दुईवी समान विवशो महीमः । इलस्ति.