पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३.लावानके-उर्वश्याख्यायिका ।।
७७
वृहत्कथामञ्जरी

गोपालान्तपुरं प्राप्ता ततस्तां वत्सभूपतिः ।
वल्लभां स्वां परिज्ञाय मुमोह विरहाकुलः ॥ १३ ॥
राजानं विह्वलं दृष्ट्वा देवी चोत्तम्भितां शुचा
पापोऽस्मि कारणमिति प्राह यौगन्धरायणः ॥ १.०४ ॥
अथाश्रुकणसंदिग्धतारहारस्तनस्थली ।
उवाच देवी नि:श्वासम्लपिताधरपल्लवा ।। १०५ ।।
आर्यपुत्रहितायैषा तीर्णा गूढस्थितिर्मया ।
खस्त्यस्त्विदानी वक्ष्यामि वहौ दुःखालयां तनुम् ॥ १०६ ॥
श्रुत्वेति वचनं देव्याः सह गोपालकादिभिः ।
पद्मावती च राजा च मन्त्री च रुरुदुः पृथक् ॥ १०७ ॥
धन्योऽसि वत्सनृपतेः महेश्वर इवापरः ।
यस्य वासवदत्तेयं सती हृदयवल्लभा ।। १०८ ॥
इत्याकाशभवा- वाणी सती भावविशुद्धये ।
उच्चचार नृपस्तां च श्रुत्वाभूत्स मदोकुलः ॥ १०९ ॥
ततः प्रहृष्टाः पीयूषसिक्ता इव परस्परम् ।
प्रशंसन्तो सुमुदिरे ते, वर्धितमहोत्सवाः ॥ ११ ॥
देवीविलोचनच्छयानीलोत्पलदलं मधु ।
पद्मावतीसितस्मेरकुसुमाकं पपौ नृपः ॥ १.११ ।।
इति पद्मावतीविवाहः ॥ ७॥
देव्योर्मध्ये स भूपालो रतिप्रीत्योरिव सरः ।
विराजमानः प्रोवाच महामात्यं कथान्तरे ।। ११२ ॥
स्वत्प्रसादभवोऽयं में हर्षेः प्रीणाति मानसम् ।'
वियोगदुःखप्रशमे प्रसीदन्ति मुखश्रियः ॥ ११३ ॥
पुरा पुरुरवा नाम राजा राज्ययशःशशी।
बभूव भूमिकन्दर्पः शत्रुनाशनशासनः ॥ ११४ ॥


'अन्य' ख. २. 'घनस्तनो' ख.

४. 'मधुप्रियः ख. 'सुख' स. ३.'