पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२४
काव्यमाला ।

प्रातर्ज्नात्वा महाश्वेता ततस्तरलिकागिरा।
अत्यन्तदुर्ग्रहामेव सखीं चित्ररथात्मजाम् ॥ ३८ ॥
गन्धर्वनगराश्चर्यदर्शनप्रणयार्थिनम् ।
चन्द्रापीडं समादाय कादम्यास्पदं ययौ !! ३९ ।।
चन्द्रापीडोऽपि गन्धर्वपुरे रत्नगृहे स्थिताम् ।
कादम्बरीं नयनयोर्ददर्श प्रमदपदाम् ॥ ४० !!
तयोः सकौतुकाकृष्टविलोकनरतोत्सवे ।
मनः परस्परप्रेमसूत्रस्यूतमिवाभवत् ॥ ४१ ॥
प्रेमोद्यानात्कुमारोऽथाकृष्टः स्वनगरीं ययौ ।
पितुः शासनलेखेन पवनेनेव षट्पदः ॥ ४२ ॥
त्वरया न्यस्तसैन्याब्धि दृष्ट्वा प्राप्तं सुतं नृपः ।
किं वैशम्पायनं त्यक्त्वा संप्राप्तोऽसीत्यभर्त्सयत् ॥ ४३ ॥
पश्चात्सैन्ये समायाते तत्रैवावस्थितं वने ।
वैशम्पायनमाकर्ण्य शुकनासः शशाप तम् ॥ ४४ ॥
चन्द्रापीड प्रभुं त्यक्त्वा जनकं मां च दुर्जनः ।
स्थितस्तत्रैव पक्षीव शुकपाठी शुक्रस्तु सः ॥ ४६ !!
कादम्बरीवियोगार्तः सुहृदं दूरवर्तिनम् ।
चन्द्रापीडस्तमन्वेष्टुं प्रययौ शासनात्पितुः ॥ ४६ ॥
महाश्वेताश्रमं प्राप्य साश्रुधारामधोमुखीम् ।
वैशम्पायनवृत्तान्तमपृच्छत्साब्रवीच्च तम् ॥ ४७ !!
आविष्ट इव संश्लेषं ययाचे चपलः स माम् ।
शुकवच्चाटुकुन्नीतः शापेन शुकतां मया ॥ ४ ॥
त्वन्मित्रमिति विज्ञाय पश्चान्मोहान्ध्यमानिता ।
श्रुत्वैतद्दुःसहतरं चन्द्रापीडोऽभवद्व्यसुः ॥ ४२ ॥
कादम्बरी प्रियं श्रुत्वा महाँग्धेताश्रमे स्थितम् ।
सहिताम्याचया पूर्वस्थितया पत्रलेखया ॥ ५० ॥