पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
 

बृहत्कथामञ्जर्याः परिशिष्टम् ।


आश्वासिताश्वः सलिलैस्तत्र शुश्राव सुस्वरम् ।
दूराद्गीतध्वनिं त्यक्तग्रासैराकर्णितं मृगैः ॥ ३५॥
गत्वा सुदूरं सोऽपश्यच्चतुर्मुखशिवालये।
कन्यां मूर्तिमतीं शंभोश्चूडाचन्द्रकलामिव ॥ २६ ॥
दृष्ट्वोपवीणयन्तीं तां ततस्तद्विरतौ शनैः ।
सोऽपृच्छज्जन्मवृत्तान्तं निवेद्य स्वकथां पुरः ॥ २७ ॥
सा नाम्ना प्राह हंसोऽस्ति गन्धर्वाधिपतिर्गिरौ ।
हेमकूटे स मां गौर्यां महाश्वेतामजीजनत् ॥ २८ ॥
सरः स्नातुमिदं मात्रा सह संप्राप्तया मया ।
दृष्टौ मुनिसुतौ कान्तौ पुण्डरीककपिञ्जलौ ॥ २९ ॥
पुण्डरीकः स मे कर्णे स्वकर्णाद्दिव्यमञ्जरीम् ।
चकार कौतुकार्तायाश्चित्तवृत्तिं जहार च ॥ ३० ॥
आहूता छत्रधारिण्या ततोऽहं मातुराज्ञया ।
नाज्ञासिषं स्वभवनं प्राप्य काहमिदं च किम् ॥ ३१ ॥
तदीयसुहृदाभ्येत्य मन्मथव्यग्रता तदा ।
तथा में\ कथिता तस्य गताहं तत्पदं यथा ॥ ३१ ॥
गत्वा व्यसुं प्रियं दृष्ट्वा तत्राहं शरणोद्यता ।
भविता प्रियलाभस्ते भीर्मेत्युक्त्वा सुधांशुना ॥ ३३ ॥
पुण्डरीकं गृहीत्वेन्दौ प्रयाते सकपिञ्जले ।
स्थितास्मि नः सहे दाहं तज्व्यानव्रतसंयुता ॥ ३४ ॥
सुहृच्चित्ररथाख्योऽस्ति गन्धर्वेन्द्रः पितुर्मम ।
मदिरायां प्रिया तस्य जाता कादम्बरी सुता ॥ ३५ ॥
तया मद्दुःखतुल्यत्वाद्विवाहे नियमः कृतः ।
तां प्रेषिता बोधयितुं सखी तरलिका मया ॥ १६ ॥
इति स्मृतिनवीभूतशोकया. कथिते तया ।
श्रुत्वा संक्रान्ततत्पीडश्चन्द्रापीडोऽनयन्निशाम् ॥ ३७ ।।