पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२२
काव्यमाला ।

ततस्तत्सरसि स्नातुं प्राप्तेन मुनिसूनुना ।
हारीतनाम्ना नीतोऽहं कृपया स्वतपोवनम् ॥ १२ ॥
जाबालिर्जनकस्तस्य तत्राब्जज इवापरः ।
स सर्वान्विस्मितः प्राह मामालोक्य महामुनिः ॥ १३ ॥
स्वस्यैव कर्मणः प्राह स्नेहादनुभवत्यसौ ।
श्रुत्वैतन्मुनयः सर्वे पप्रच्छुर्मम चेष्टितम् ॥ १४ ॥
सोऽब्रवीदुज्जयिन्याख्या पुरी रम्यास्त्यवन्तिषु ।
विधातुर्विविधाश्चर्यनिधानानामिवावधिः ॥ १५ ॥
तारापीडाभिधस्तस्यां बभूवावनिवासवः ।
देवी विलासवत्यस्य शुकनासश्च मन्त्रवित् ।। १६ ।।
निरपत्यतयार्तायाः पत्न्याः शोकेन दुःखितः ।
स्वप्नेऽपश्यत्स तद्वक्रं प्रविशन्त निशाकरम् ॥ १७ ॥
विलासवत्यथानन्दमिवासूत जनप्रियम् ।
चन्द्रसंदर्शनात्स्वप्ने चन्द्रापीडाभिधं सुतम् ॥ १८ ॥
पत्नी च शुकमासस्य पुत्र प्राप मनोरमा ।
वैशम्पायननासानं स्वग्नेऽब्जप्राप्तिसूचितम् ॥ १९ ॥
कुमारस्याप्तविद्यस्य जनन्याः शासनादभूत् ।
कन्यका पत्रलेखाख्या ताम्बूलदलवाहिनी ॥ २० ॥
यौवराज्याभिषेकार्द्रः कुमारः सोऽथ शक्तिमान् ।
वर्षत्रयं महासेनः पृथ्वीं बभ्राम दिग्जयी ॥ २१ ॥
कदाचिदुत्तराशान्ते मृगयार्थी चचार सः ।
अब्धिजन्मानमारुह्य हयमिन्द्रायुधाभिधम् ।। २२ ॥
स दृष्ट्वा किंनरद्वन्द्रं मनोहरतराकृति ।
वेगाज्जिघृक्षन्नाज्ञासील्लङ्घि तां विपुलां भुवम् ॥ २३ ॥
तस्मिन्वने तु दीर्घाध्वश्रान्तः कैलासभूभृतः ।
प्रापाच्छोदं सर: पार्श्वे स्फटिकस्वच्छसुन्दरम् ॥ २४ ॥