पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
 

बृहत्कथामञ्जर्याः परिशिष्टम् ।


विजीवितं प्रियं दृष्ट्वा मोहं कादम्बरी ययौ
इन्द्रायुधं समादाय पत्रलेखाविशत्सरः ।।
तदैव सरसस्तस्मादुदतिष्ठकपिञ्जलः ।
अभ्येत्य सः महाश्वेतां प्रीत्या पृष्टस्तयाब्रवीत् ॥ ९२ !!
उत्क्षिप्तः पुण्डरीकोऽसौ पृष्टः पश्चान्मया दिवि ।
मामुवाच शशाङ्कोऽहं शप्तस्त्वत्सुहृदामुना ॥ १३ ॥
मत्तुल्यव्यथयैवार्ति यास्यस्यपरजन्मनि ।
मया च प्रतिशप्तोऽयं त्वमप्येवं भविष्यसि ॥ ५४॥
शापान्तावधि तस्यापि देहमस्य स्वमण्डले ।
मद्वंशजा महाश्वेता जामाता तत्पतिर्मम ॥ ५५ ॥
श्रुत्वाहमेतच्चन्द्रोक्तं पुण्डरीकपितुर्मुनेः ।
श्वेतकेतोः पदं गन्तुं प्रवृत्तस्तत्कथार्पकः ॥ १६ ॥
वैमानिकः स्वे व्रजता मया वेगेन लङ्घितः ।
अशपन्मां जवोदग्रं तुरगस्त्वं भविष्यसि ॥ १७ ॥
तप्तोऽहमब्धौ पतितः क्षणादश्वः समुत्थितः
इन्द्रायुधाभिधः प्राप्तश्चन्द्रापीडस्य वाहताम् ॥ १८ ॥
अधुना मुक्तशापोऽहं गच्छामि श्वेतकेतवे ।
वक्तुं वृत्तान्तमित्युक्त्वा ययौ व्योम्ना कपिञ्जलः ।। ५९ ।।
कादम्बरीं लब्धसंज्ञां प्रवेष्टुं वह्निमुद्यताम् ।
वर्षन्निवामृतं चन्द्रः प्रोवाच गगनस्थितः ॥ ६० ॥
त्वं चन्द्रकान्तपर्यङ्के देहं रक्षास्य निर्व्यथा ।
अचिरात्प्राप्तजीवोऽयं भविष्यतिः पतिस्तषः ॥ ६.१ ॥
श्रुत्वैतद्गदितं स्वे च संशयाश्वासिताशया ।
चन्द्रापीडशरीरस्य परिचर्यारताभवत् ।। १२ ।
देशं ततस्तं सहितः शुकनासेन शोकवान् ।
पत्न्या विलासवत्या च तारापीडः समाययौः ॥ १३ ॥