पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
 

बृहत्कथामञ्जाः परिशिष्टम्


पुनः स्कन्धस्थितः प्राह निर्बन्धोऽयमहो नु ते ।
भुङ्क्ष्व गत्वा श्रियं राजन्नो चेदेकां कथां शृणु ॥ १ ॥
श्रीमान्वेत्रवतीपूरमेखलायां महीपतिः ।
नगर्यां विदिशाख्यायां क्षमापतिः शूद्रकोऽभवत् ॥ २ ॥
तस्मै कदाचिदास्थाने चण्डालपतिपुत्रिकां ।
उपायनीचकारैकं रत्नं सर्वविदं शुकम् ॥ ३ ॥
राज्ञा कृतफलाहारः स पृष्टः स्वकथां निशि ।
ऊचे दीर्घास्ति वेणीव देव विन्ध्याटवी भुवः ॥ ४ ॥
तखा पम्पासरस्तीरे मदोद्धत इवोन्नतः ।
शुककोटिनिवासोऽस्ति जीर्णः शाल्मलिपादप: ।। ९ ॥
तस्मिन्वृद्धशुकस्याहं जातश्छिन्नगतेः सुतः ।
प्रसवक्लेशनिर्जीवा जननी पञ्चतां ययौ ॥ ६ ॥
तातेन द्विगुणस्नेहात्पक्षगर्भादनुज्झितः ।
धृतोऽहं जननीन्हाच्छुष्कौषधिफलाम्बुभिः ॥ ७ ॥
एकदा शबरव्रातैः संनिपातैरिवोत्कटैः ।
कानने मृगयासक्तैः सर्वप्राणिभये कृते ॥ ८ ॥
अप्राप्तवन्यपिशितस्तं समारुह्य शाल्मलिम् ।
एकश्चकार शबरः स्थविरः शुकसंक्षयम् ॥ ९ ॥
तातं विधाय निर्जीवं पक्षाच्छादितमत्तनुम् ।
क्षितिक्षिप्तैः शुकैरन्यत्त्तमादाय जगाम सः ॥ १० ॥
अहं तु तातपक्षान्तर्लम्बमानतनुश्च्युतः ।
निचये जीर्णपर्णानां पुण्यशेषेण रक्षितः ॥ ११ ॥


१.सर्गोऽयमम्मत्थुस्तके न प्राक्ष इति तौरवासिमिः श्रीमद्भिः टी. एन. कुत-

स्वामी-शास्त्रिभिः कृपया प्रेषितो मुद्रितोऽभमाभिः