पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९. उपसंहारे-लम्बक संग्रहः ।।
६१९
बृहत्कथामञ्जरी


अतीतमात्मचरितं प्रोवाचेत्यसिताचले।
सुहृदां च मुनीनां च पुरतो नरवाहनः ।। २१ ॥
इत्यनुक्रमणिका ॥ १ ॥
कथापीठे कथावक्रलम्बो लावानकस्ततः ।
नरवाहनजन्माख्यः स्याच्चतुर्दारिका ततः ॥ २२ ॥
सूर्यप्रभस्ततो ज्ञेयस्ततो मदनमञ्चुका ।
वेलालम्बस्ततः प्रोक्तः स्याच्छशाङ्कचती ततः ॥ २३ ॥
लम्भो विषमशीलाख्यस्तथा तु मदिरावती ।
पद्मावती नाम लम्भस्ततः स्यात्पञ्च लम्भकाः ॥ २४ ॥
रत्नप्रभा च तदनु ततोऽलंकारवत्यपि ।
लतः शक्तियशां नाम लम्भको बहुकौतुकः ॥ २५ ॥
महाराज्याभिषेकश्च पश्चात्सुरतमञ्जरी ।
इत्यष्टादशभिर्युक्तां लम्भैः शर्वोदितां कथाम् ।
काणभूतिर्गुणाढ्याय गणाच्छ्रुत्वा न्यवेदयत् ॥ २६ ॥
इति लम्भकसंग्रहः ॥ २ ॥
इत्येतां विपुलाश्चर्यां स राजा शातवाहनः ।
गुणाढ्याच्छिष्यसहितः समासाद्य बृहत्कथाम् ॥ २७ ॥
परामृतरसक्षीयो चूर्णमान इवानिशम् ।
सप्तलक्षाणि नामानीत्यभूत्सानुशयो मुहुः ॥ २८ ॥
सेयं हरमुखोद्गीर्णां कथानुग्रहकारिणीं ।
पिशाचवाचि पतिता संजाता विघ्नदायिनी ॥ १९ ॥
अतः सुखनिषेव्यासौ कृता संस्कृतया गिरा ।
समां भुवमिवानीता गङ्गा श्वभ्रावलम्बिनी ॥ ३० ॥
काश्मीरको गुणाधारप्रकाश्चण्डाभिधोऽभवत् ।
नानार्थिजनसंकल्पपूरणे कल्पपादपः ॥ ३१ ॥