पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१८
काव्यमाला ।

लब्ध्वा जिनेन्द्रसेनाख्यां राजपुत्रीमहं ततः ।
केनापि भूतेनाश्रौषं हृतां मदनमञ्चकाम् ॥ ८ ॥
अथ तद्विरहार्तोऽहं नीतो विद्याधरश्रिया ।
पिशङ्गजटनामाथ मुनिराश्वासयन्मुहुः ॥ ९ ॥
शशाङ्कवत्यामासक्तमनसो विपुलां कथाम् ।
ऊचे मृगाङ्कदत्तस्य वियोगानङ्गशालिनी ॥ १०॥
ततः कण्वमुनिः प्राह मामन्यस्मिंस्तपोवने ।
राज्ञो विषमशीलस्य दिव्यं चरितमद्भुतम् ॥ ११ ॥
ततो द्विजसुताभ्यां च कथितां बद्धकौतुकाम् ।
अवाप्तिमिन्दिरावत्याः श्रुत्वाहं स्वपुरीं गतः ॥ १२ ॥
तत्र प्रियावियोगार्तं गोमुखः प्राह मां सुहृत् ।
मुक्ताकेतुः खेचरेन्द्रः प्राप पद्मावतीं यथा ॥ १३ ॥
अत्रान्तरे वेगवती नाम विद्याधरात्मजा ।
निनाय मत्प्रिया यत्र स्थिता मदनमञ्चुका ॥ १४ ॥
हत्वा मानसवेगं तमा""हस्तां मिया मम ।
प्राप्य विद्याधरीं तां च प्रयातोऽहं निजां पुरीम् ॥ १५ ॥
रत्न प्रभा ततः प्राप्ता मया विद्याधरप्रभोः ।
सुता हेमप्रभाख्यस्य तुहिनाचलवासिनः ॥ १६ ॥
ततोऽलंकारशीलस्य विद्याधरपतेः सुता ।
लब्धालंकवत्याख्या मयालंकरणं रतेः ।। १७ ॥
ततश्च शक्तियशसं ततः स्फटिकपुत्रिकाम् ।
अवापं त्यक्तचापस्य मन्मथस्यायुवं नवम् ॥ १८ ॥
ततो मन्दरदेवाख्यं जित्वा विद्याधराधिपम् ।
गौरीमुण्डं च विस्तीर्णामभजं चक्रवर्तिताम् ॥ १९ ॥
वत्सराजं ततः श्रुत्वा यातं शक्रोपमं दिवम् ।
संगतो मातुलेनास्मिन्कश्यपस्य तपोवने ॥ २० ॥