पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९. उपसंहारे-अनुक्रमणिका ।
६१७
बृहत्कथामञ्जरी।

इत्येवं सत्त्वयुक्तानां नम्राणां सत्यवादिनाम् ।
क्षमाप्रसन्नमनसा स्वयमाया)न्ति संपदः ।। २१४ ॥
इति तारावलोकाख्यायिका ॥ ८ ॥
इति मुनिवरवाक्यादाप्तसंतोषपोषो
गगनचरसहस्रैर्वन्द्यमानः प्रसन्नः ।
शिखिगरगरलालीश्यामलाम्भोदमाला-
कलितललितलोकाकामिनी(भिर्ललास) ॥ २१५ ॥
इति क्षेमेन्द्रविरचितायां बृहत्कथामञ्जर्यां सुरतमञ्जरी नामाष्टादशो लम्बकः।



उपसंहार ।


चक्रवर्तिपदं प्राप्य विद्याधरधराभुजाम् ।
अधुना निजवृत्तान्तं स्म ब्रूते नरवाहनः ॥ १ ॥
परत्वेनात्मचरितं ख्यापयंश्चन्द्रमौलिना ।
निबद्धकवितावक्त्राद्वत्सराजात्मजः स्वयम् ॥ २ ॥
कश्यपस्याश्रमे श्रीमानसिताचलकन्दरे ।
मातुलस्य मुनीनां च भार्याणां चाब्रवीत्पुरः ॥ ३ ॥
पुत्रोऽहं वत्सराजस्य हर्षेणाहं महत्पुरी।
वर्धमानकथां श्रुत्वा शक्तिवेगेन वर्णिताम् ॥ ४ ॥
तां चतुर्दारिकांसंज्ञां ततो वज्रप्रभोदितम् ।
सूर्यप्रभस्य विजयं श्रुत्वा विद्याधरप्रभोः ॥ ५ ॥
भाविनीं च निशम्याहमात्मनश्चक्रवर्तिताम् ।
विद्याधरीं खेचरेभ्यः सोत्साहचरितोऽभवम् ॥
ततः कलिङ्गसेनायाः सुतां मदनमञ्चकाम् ।
अवापं मन्मथः सोऽहं रतिं जन्मान्तरं गताम् ॥ ७ ॥


बालशालालिश्या- ख...३..एतकोष्टान्तर्गतबाट:

१. प्रताप ख. ख-पुस्तके नोपलभ्यते.